दृष्ट्वा तान्कोटिशो दैत्यान्क्रुद्धो भीमात्मजात्मजः
पादघातैस्ततः कांश्चिद्भुजाघातैस्तथापरान्
यथा नलवनं क्र्रुद्धः कुर्याद्भूमिसमं करी
ततो नागाः समागम्य वासुकिप्रमुखास्तदा
नागानां परमं कृत्यं कृतं ते भैमिनंदन
अनेन हि वयं वीर सानुगेन दुरात्मना 1.2.63.
वरं वृणीष्व त्वं तस्मान्नागेभ्योऽभिमतं परम्
सर्वविघ्नविनिर्मुक्तो विजयः सिद्धिमाप्नुयात्
ततस्तथेति तं प्रोचुः प्रहृष्टा वायुभोजनाः
विवरस्य च मध्येन समागच्छन्महाप्रभम्
अर्च्यमानं सुवह्नीभिर्नागकन्याभिरैक्षत
केनेदं स्थापितं लिंगं सूर्यवैश्वानरप्रभम्
इति वीरवचः श्रुत्वा बृहत्कटिपयोधरा
सर्वपन्नगराजेन शेषेण सुमहात्मना
दर्शनात्स्पर्शनाद्ध्यानादर्चनात्सर्वसिद्धिदम्
एलापत्रेण विहितो नागानां तत्र प्राप्तये 1.2.63.
कर्कोटकेन नागेन कृतोऽयं तत्र प्राप्तये
ऐरावतेन विहितो नागानां गमनाय च
गुप्तक्षेत्रे सिद्धलिंगं याति शक्तिगुहाऽऽकृतः
इतीदं वर्णितं वीर विज्ञप्तिः श्रूयतां मम अधुनैव तथैकाकी समायातोऽत्र नो वद
वयं च सर्वास्ते दास्यस्त्वां पतिं प्रवृणीमहे
बर्बरीक इति ख्यातस्तं दैत्यं हंतुमागतः
स च दैत्यो हतः पापः पुनर्यास्ये महीतलम्
ब्रह्मचारिव्रतं यस्मादहं सततमास्थितः
ऊर्ध्वमाचक्रमे वीरः कातरं ताभिरीक्षितः
प्रहर्षेणैव पूर्वस्या विजयं ददृशे दिशः 1.2.63.
कांत्या सूर्यसमाभास ऊर्ध्वमाचक्रमे क्षणात्
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः
तव प्रसादाद्वीरेश सिद्धिः प्राप्ता मयातुला
अत एव हि साधृनां संगमिच्छंति साधवः