नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत्
ततस्तृतीययामे च प्रतीच्या दिश आययौ
दुहद्रुहाख्याश्वतरी मेघभ्रष्टा तडिद्यथा
उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव
स्थापयामास तत्रैव तस्थौ सा चातिपीडिता
जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् 1.2.63.
पादौ च वीरः संगृह्य चिक्षेप भुवि लीलया
मुष्टिना पातयित्वैव दंतान्कंठमपीडयत्
एवं सीकोत्तरस्थाने स्मशानैकपदो द्भवा
हत्वा तां चापि चिक्षेप प्रतीच्यामेव लीलया
ततस्तथैव संतस्थौ बर्बरीकोऽभिरक्षणे
मुंडी नग्नो मयूराणां पिच्छधारी महाव्रतः
अहिंसा परमो धर्मस्तदग्निर्ज्वाल्यते कुतः
श्रुत्वेदं वचनं तस्य बर्बरीकोऽब्रवीत्स्मयन्
अनृतं भाषसे पाप शिक्षायोग्योऽसि दुर्मते
दन्तान्मुष्टिप्रहारैश्च समाहत्याभ्यपातयत् 1.2.63.
स क्षणाच्चेतनां प्राप्य घोरदैत्यवपुर्धरः
बहुप्रभेति नगरी षष्टियोजनमायता
बर्बरीकं ततो दृष्ट्वा नादोऽभूच्च पलाशिनाम्
तच्छ्रुत्वा दैत्यवीराणां कोटयो नव भीषणाः
दृष्ट्वा तान्कोटिशो दैत्यान्क्रुद्धो भीमात्मजात्मजः
पादघातैस्ततः कांश्चिद्भुजाघातैस्तथापरान्
यथा नलवनं क्र्रुद्धः कुर्याद्भूमिसमं करी
ततो नागाः समागम्य वासुकिप्रमुखास्तदा
नागानां परमं कृत्यं कृतं ते भैमिनंदन
अनेन हि वयं वीर सानुगेन दुरात्मना 1.2.63.
वरं वृणीष्व त्वं तस्मान्नागेभ्योऽभिमतं परम्
सर्वविघ्नविनिर्मुक्तो विजयः सिद्धिमाप्नुयात्
ततस्तथेति तं प्रोचुः प्रहृष्टा वायुभोजनाः
विवरस्य च मध्येन समागच्छन्महाप्रभम्