ददृशे च ततः शैलः शतशृंगोऽतिविस्तरः
नानानिर्झर संघोषं ववृषे शोणितं वहु
पर्वतो द्विगुणो भूत्वा पर्वतं सहसाप्लुतः
तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमंडले
वक्त्रैर्मुंचन्महाज्वालां रेपलेन्द्रोऽभ्यधावत
विधाय तादृशं रूपं नर्दन्तं चाप्यधावत 1.2.63.
युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ
पर्वताविव सत्पक्षौ चिरं युयुधतुः स्थिरम्
भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह
तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते
नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत्
ततस्तृतीययामे च प्रतीच्या दिश आययौ
दुहद्रुहाख्याश्वतरी मेघभ्रष्टा तडिद्यथा
उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव
स्थापयामास तत्रैव तस्थौ सा चातिपीडिता
जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् 1.2.63.
पादौ च वीरः संगृह्य चिक्षेप भुवि लीलया
मुष्टिना पातयित्वैव दंतान्कंठमपीडयत्
एवं सीकोत्तरस्थाने स्मशानैकपदो द्भवा
हत्वा तां चापि चिक्षेप प्रतीच्यामेव लीलया
ततस्तथैव संतस्थौ बर्बरीकोऽभिरक्षणे
मुंडी नग्नो मयूराणां पिच्छधारी महाव्रतः
अहिंसा परमो धर्मस्तदग्निर्ज्वाल्यते कुतः
श्रुत्वेदं वचनं तस्य बर्बरीकोऽब्रवीत्स्मयन्
अनृतं भाषसे पाप शिक्षायोग्योऽसि दुर्मते
दन्तान्मुष्टिप्रहारैश्च समाहत्याभ्यपातयत् 1.2.63.
स क्षणाच्चेतनां प्राप्य घोरदैत्यवपुर्धरः
बहुप्रभेति नगरी षष्टियोजनमायता
बर्बरीकं ततो दृष्ट्वा नादोऽभूच्च पलाशिनाम्
तच्छ्रुत्वा दैत्यवीराणां कोटयो नव भीषणाः