ततः कण्ठं समाश्लिष्य तस्या मतिमतां वरः
तं दृष्ट्वा विस्मिता सा च यावन्मुंचति कर्तिकाम्
पीड्यमाने च बलिना कंठे तस्या मुहुर्मुहुः
क्षणं रावांस्ततो मुक्त्वा त्राहि मुञ्चेति वक्त्यणु
शरणं ते प्रपन्नास्मि दासी कर्मकरी तव
काशीश्मशाननिलयां देवदानवदर्पहाम् 1.2.63.
ततस्तपश्चरिष्यामि सर्वभूताभयप्रदा
यद्येतद्व्यत्ययं कुर्यां भस्मीभूयां ततः क्षणम्
मुमोच सापि संहृष्टा कृच्छ्रा- न्मुक्ता ययौ वनम्
ततो मध्यमरात्रौ च गर्जितं श्रूयते महत्
ददृशे च ततः शैलः शतशृंगोऽतिविस्तरः
नानानिर्झर संघोषं ववृषे शोणितं वहु
पर्वतो द्विगुणो भूत्वा पर्वतं सहसाप्लुतः
तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमंडले
वक्त्रैर्मुंचन्महाज्वालां रेपलेन्द्रोऽभ्यधावत
विधाय तादृशं रूपं नर्दन्तं चाप्यधावत 1.2.63.
युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ
पर्वताविव सत्पक्षौ चिरं युयुधतुः स्थिरम्
भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह
तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते
नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत्
ततस्तृतीययामे च प्रतीच्या दिश आययौ
दुहद्रुहाख्याश्वतरी मेघभ्रष्टा तडिद्यथा
उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव
स्थापयामास तत्रैव तस्थौ सा चातिपीडिता
जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् 1.2.63.
पादौ च वीरः संगृह्य चिक्षेप भुवि लीलया
मुष्टिना पातयित्वैव दंतान्कंठमपीडयत्
एवं सीकोत्तरस्थाने स्मशानैकपदो द्भवा
हत्वा तां चापि चिक्षेप प्रतीच्यामेव लीलया