यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि धारयेत इमां विद्यामेभिर्दोषैर्न लिप्यते
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत्
गुल्मशूलाक्षिरोगाणां नित्यं नाशकरी तथा
तद्यथा ।। हन २ कालि सर २ कालि सर २ गौरि धम २ गौरि धम २ विद्ये आले ताले माले गंधे वधे पच २ विद्ये नाशय पापं हन् दुःस्वप्नं विनाशय कष्टनाशिनि रजनि संध्ये दुंदुभिनादे मानसवेगे शंखिनि चक्रिणि वज्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि केशवदयिते पशुपतिमहिते दुर्द्दमदमिनि शर्वरि किराति मातंगि ॐह्राँह्रँह्रँह्रँक्राँक्रँक्रँक्रँत्वर २ ये मां द्विषति प्रत्यक्षं परोक्षं वा सर्वान्दम २ मर्द्द २ तापय २ पातय २ शोषय २ उत्सादय २ ब्रह्माणि माहेश्वरि वाराहि विनायकि ऐंद्रि आग्नेयि चामुंडे वारुणि प्रचंडविद्योते इंदोपेंद्रभगिनि विजये शांतिस्वस्तिपुष्टिविवर्धिनि कामांकुशे कामदुधे सर्वकामवरप्रदे सर्वभूतेषु वासिनि प्रति विद्यां कुरु २ आकर्षिणि वेशिनि ज्वालामालिनि रमणि रामणि धरणि धारिणि मानोन्मानिनि रक्ष २ वायव्ये ज्वालामालिनि तापनि शोषणि नीलपताकिनि महागौरि महाश्रये महामयूरि आदित्यरश्मि जाह्नवि यमधंटे किणि २ चिंतामणि सुरभि सुरोत्पन्ने कामदुघे यथा मनीषितं कार्यं तन्मम सिध्यतु स्वाहा ॐस्वाहा ॐभूः स्वाहा ॐभुवः स्वाहा ॐस्वः स्वाहा ॐभूर्भुवःस्वःस्वाहा यत्रैवागतं पापं तत्रैव प्रतिगच्छतु स्वाहा ॐबले महाबले उासिद्धसाधिनि स्वाहा ।। 1.2.62.
इतीमां साधयामास वैष्णवीमपरा जिताम्
य इमां पठते नित्यं साधनेन विनापि च
जुह्वतो मंत्रमुख्यैश्च बलातिबलसंज्ञकैः
यामे तु प्रथमे याते काचिन्नारी समाययौ
दारुणाक्षी शुक्लदन्ती भयस्यापि भयंकरी
तां दृष्ट्वा चुक्षुभे सद्यो विजयो भीतिमानिव
ततः कण्ठं समाश्लिष्य तस्या मतिमतां वरः
तं दृष्ट्वा विस्मिता सा च यावन्मुंचति कर्तिकाम्
पीड्यमाने च बलिना कंठे तस्या मुहुर्मुहुः
क्षणं रावांस्ततो मुक्त्वा त्राहि मुञ्चेति वक्त्यणु
शरणं ते प्रपन्नास्मि दासी कर्मकरी तव
काशीश्मशाननिलयां देवदानवदर्पहाम् 1.2.63.
ततस्तपश्चरिष्यामि सर्वभूताभयप्रदा
यद्येतद्व्यत्ययं कुर्यां भस्मीभूयां ततः क्षणम्
मुमोच सापि संहृष्टा कृच्छ्रा- न्मुक्ता ययौ वनम्
ततो मध्यमरात्रौ च गर्जितं श्रूयते महत्
ददृशे च ततः शैलः शतशृंगोऽतिविस्तरः
नानानिर्झर संघोषं ववृषे शोणितं वहु
पर्वतो द्विगुणो भूत्वा पर्वतं सहसाप्लुतः
तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमंडले
वक्त्रैर्मुंचन्महाज्वालां रेपलेन्द्रोऽभ्यधावत
विधाय तादृशं रूपं नर्दन्तं चाप्यधावत 1.2.63.
युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ
पर्वताविव सत्पक्षौ चिरं युयुधतुः स्थिरम्
भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह
तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते