आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम्
अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत्
विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये
शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात्
एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात्
तच्चारुणगिरीशानमावामाराधयावहे 1.3.2.16.
संत्यत्र केशराश्चूता नागपुंनागकेसराः
अत्रैव सन्निधातव्यं देवदेव दयानिधे
नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि
शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः
सांगवेदा धर्मशास्त्रं पुराणानि शिवागमाः
निश्रेयसाय भक्तानां त्वयैव गुरुरूपिणा
तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनाम्
जगाद करुणामूर्त्तिर्जगतीभृत्सुतापतिः
कामिकोक्तेन मार्गेण मामर्चयितुमर्हथः
मोहतो विस्मृता मन्ये भवद्भ्यां शैवसंहिता 1.3.2.16.
तदा प्रादुरभूत्तत्र लिंगं किमपि मंगलम्
तच्चावलोक्य साश्चर्य्यौ मुकुन्दकमलासनौ
तावकारयतां शोणगिरिनाथस्य चालयम्
खानयामासतुस्तत्र सरः किमपि पावनम्
अरुणाख्यं पुरं चारात्कल्पयामासतुश्चिरम्
तस्यां ब्रह्मर्षयो देवा गंधर्वा दिव्ययोषितः
तीर्थानि धार्य कूपत्वं गंगाद्याः सरितस्तथा
गोलोको गोगोष्ठतया नैगमत्वं किलागमाः
भूताः प्रेताः पिशाचाश्च वेतालाः कटपूतनाः
देवोपि धूर्जटिस्तस्यां कौतुकी सिद्धरूपधृक् 1.3.2.16.
न केनचिदविज्ञातः सदा सर्वत्र दीप्यति
दांतौ शोणाद्रिनाथं तमर्चयामासतुश्चिरम्
दीक्षादिकानि चक्राते स्वयमाचार्यतां गतौ
प्रातः स्नात्वा समाहृत्य पुष्पपत्रादिकं फलम्