सिद्धेयश्चैव वलिको नीलपादेकदंष्ट्रिकः
ऊर्ध्वपादः कम्बलश्च खंजनः खर एव च
जटालोप्यजटालश्च नौमि स्वःक्षेत्रपालकान्
ठंठंकणो जंबरश्च स्फुलिंगास्यस्तडिद्रुचिः 1.2.62.
फेत्कारकारी पंचास्यो बर्बरी भीमरूपवान्
रौरवश्चापि लंबोष्ठो वणिजः सुजटालिकः
सर्वलिंगेषु हुंकारः स्मशानेषु भयावहः
एकवृक्षश्च वृक्षेषु करालवदनो निशि
चत्वरेषु दुरारोहः पर्वते कुरवस्तथा
रसक्षेत्रे रसाध्यक्षो यज्ञवाटेषु कोटनः
एवं चतुःषष्टिमिताञ्छरणं यामि क्षेत्रपान्
सर्वकार्येषु यश्चैवं क्षेत्रपानर्चयेच्छुचिः
इमं क्षेत्रपकल्पं च विजानन्विजयस्तथा
प्रणम्य च ततो देवीमानर्च वटयक्षिणीम् 1.2.62.
समानीतास्तैश्च साकं सुनंदा नाम ब्राह्मणी
सा कृच्छ्राणि पराकांश्च अतिकृच्छ्राणि कुर्वती
मासोपवासं च तथा कार्तिके कुलनंदिनी
दर्शे स्नानं तथा चक्रे महीसागरसंगमे
धूतपापा ययौ लोकमुमायाः कृतस्वागता
तस्यास्तुष्टो वरं प्रादात्सिद्धलिंगस्थितो हरः
तस्य तन्निष्फलं सर्वमित्युक्तं पाल्यमेव मे पुष्पैर्धूपैस्तु नैवेद्यैर्मंत्रेणानेन भक्तितः
सुनंदे नंदनीयासि पूजामेतां गृहाण मे
एवं संपूज्य तां नत्वा क्षमाप्य वटयक्षिणीम्
विजयश्चापि माहात्म्यमिदं जानन्महामतिः 1.2.62.
ततः सिद्धांबिकां स्तुत्वा जप्तवानपराजिताम्
यस्याः स्मरणमात्रेण सर्वदुःखक्षयो भवेत्
ॐ नमो भगवते वासुदेवाय नमोऽनंताय सहस्रशीर्षाय क्षीरोदार्णवशायिने शेषभोगपर्यंकाय गरुडवाहनाय पीतवाससे वासुदेव संकर्षण प्रद्युम्नानिरुद्ध हयशिरो वराह नरसिंह वामन त्रिविक्रम राम राम वरप्रद नमोऽस्तु ते नमोऽ स्तुते असुरदैत्यदानवयक्षराक्षस भूतप्रेतपिशाचकुंभांड सिद्धयोगिनी डाकिनी स्कंदपुरोगमान्ग्रहान्नक्षत्रग्रहांश्चान्यांश्च हन २ दह २ पच २ मथ २ विध्वंसय २ विद्रावय २ शंखेन चक्रेण वज्रेण गदया मुशलेन हलेन भस्मीकुरु सहस्रबाहवे सहस्रचरणायुध जय २ विजय २ अपराजित अप्रतिहत सहस्रनेत्र ज्वल २ प्रज्वल २ विश्वरूप बहुरूप मधुसूदन महावराह महापुरुष वैकुंठ नारायण पद्मनाभ गोविंद दामोदर हृषीकेश सर्वासुरो त्सादन सर्वभूतवशंकर सर्वदुःखप्रभेदन सर्वयंत्रप्रभंजन सर्वनागप्रमर्दन सर्वदेवमहेश्वर सर्वबंधविमोक्षण सर्वाहितप्रमर्दन सर्वज्वरप्रणाशन सर्वग्रह निवारण सर्वपापप्रशमन जनार्दन जनानंदकर नमोऽस्तु ते स्वाहा
इमामपराजितां परमवैष्णवीं महाविद्यां जपति पठति शृणोति स्मरति धारयति कीर्तयति न च तस्य वाय्वग्निवज्रोपलाशनिवर्षभयं न समुद्रभयं न ग्रहभयं न च चौरभयं न च श्वापदभयं वा भवेत्
क्वचिद्रात्र्यंधकारस्त्रीराजकुलविषोपविषगरदवशीकरण विद्वेषणोच्चाटनवधबंधभयं वा न भवेदेतैर्मंत्रपदैरुदाहृतैर्हृदा बद्धैः संसिद्धपूजितैः
तद्यथा ।। नमोनमस्तेऽस्तु अभये अनघे अजिते अत्रसिते अमृते अपराजिते पठितसिद्धे स्मरितसिद्ध एकानंशे उमे ध्रुवे अरुंधति सावित्रि गायत्रि जातवेदसि मानस्तोके सरसि सरस्वति धरणि धारिणि सौदामिनि अदिते विनते गौरि गांधारि मातंगि कृष्णे यशोदे सत्यवादिनि ब्रह्मवादिनि कालि कपालिनि सद्योवयवचयनकरि स्थलगतं जलगतमंतरिक्षगतं वा रक्ष २ सर्वभूतभयोपद्रवेभ्यो रक्ष २ स्वाहा