आत्मशक्तिं तत्र मुक्त्वा प्रोवाचेदं वचः शुभा
देवारिं च दुरात्मानं शीघ्रं नाशय शोभने
रवेणैव मृतं चक्रे सानुगं स्फुटितहृदम्
यैरासन्विकला लोकास्त्रयोऽपि प्रमृता यथा 1.2.62.
रुदंस्तस्याः समीपे चाप्यागतः प्रेतसद्मनि
कालिकाऽपाययत्स्तन्यं मा रुदेति प्रजल्पती
योऽसौ हरकंठभवविषादासीत्सुदुर्धरः
बालोऽपि बालरूपं तत्त्यक्तुमैच्छत्कृतक्रिहया:
ततो देवाः कालिकायाः शंकमानाः पुनर्भयम्
अस्ति चेद्भवतां भीतिरन्यान्स्रक्ष्यामि बालकान्
प्राह तान्बालरूपांश्च बालरूपी महेश्वरः
चतुर्दशानां भूर्लोके वासो वः पालनं तथा
नैवेद्यं भवतां राजमाषतंदुलमिश्रकाः
तस्य तन्निष्फलं भावि भुक्तं प्रेतैश्च राक्षसैः 1.2.62.
क्षेत्रपालाः स्थिताश्चैव यथास्थाने निरूपिताः
आराधनं प्रवक्ष्यामि येन प्रीता भवंति ते
ॐक्षां क्षेत्रपालाय नमः
अनेनात्र चंदनादि दत्त्वा राजमाषतण्डुलमिश्रकाश्च चतुःषष्टिकृतभागान्वटकान्निवेद्य तावत्यो दीपिकास्तावन्ति पत्राणि पूगानि निवेद्य दण्डवत्प्रणम्य महास्तुतिमेतां जपेत्
ॐऊर्ध्वकेशा विरू पाक्षा नित्यं ये घोररूपिणः
अह्वरो ह्यापकुम्भश्च इडाचारस्तथैव यः
सिद्धेयश्चैव वलिको नीलपादेकदंष्ट्रिकः
ऊर्ध्वपादः कम्बलश्च खंजनः खर एव च
जटालोप्यजटालश्च नौमि स्वःक्षेत्रपालकान्
ठंठंकणो जंबरश्च स्फुलिंगास्यस्तडिद्रुचिः 1.2.62.
फेत्कारकारी पंचास्यो बर्बरी भीमरूपवान्
रौरवश्चापि लंबोष्ठो वणिजः सुजटालिकः
सर्वलिंगेषु हुंकारः स्मशानेषु भयावहः
एकवृक्षश्च वृक्षेषु करालवदनो निशि
चत्वरेषु दुरारोहः पर्वते कुरवस्तथा
रसक्षेत्रे रसाध्यक्षो यज्ञवाटेषु कोटनः