प्रथमायां ततो रात्रौ ययौ सिद्धांबिकापुरः
अष्टदिक्ष्वष्टकीलांश्च निखन्यैव ससूत्रकान्
शिखामाबद्ध्य दिग्बंधं कृत्वा रेभे ततो विधिम् 1.2.61.
समर्प्य च ततः खड्गं खादिरं मंत्रतेजितम्
शुचिर्विनिद्रः संतिष्ठ स्तवं देव्याः समुद्गिरन्
इत्युक्ते संस्थिते तत्र बर्बरीके महाबले
ततः सुखासनो भूत्वा गुंगुरुभ्यो नमः इति ततो गणेश्वरविधानमारब्धवान्
अथातः संप्रवक्ष्यामि मंत्रं गणपतेः परम्
सर्वकार्यकरं स्वल्पं महार्थं सर्वसिद्धिदम्
ॐगांगींगूंगैंगौंगः सप्ताक्षरोऽयं महामंत्रः साध कस्य पूर्वं तिलककरणम् इति तिलकस्योपरि अक्षतान्दद्यात् अनेन मन्त्रेण इति तिलकमंत्रः अनेन मंत्रेण गणेशाय पुष्पांजलित्रयं दद्यात् अत ऊर्ध्वं मूलमन्त्रेण जपं कुर्यात् ॐ गां गणपतये स्वाहेति मन्त्रेण गुग्गुलगुटिकाभिर्होमं विदध्याद्विनियोगं चेति गाणेश्वरो ता?कल्पः सर्वविघ्नानि नश्यंति मनोभीष्टं च सिध्यति
डाकिन्यो यातुधानाश्च प्रेताद्याश्च भयंकराः
इमं गाणेश्वरं कल्पं विजानन्विजयोऽपि च
दशांशं गुटिका हुत्वा पूज्य सिद्धिविनायकम् 1.2.61.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाविद्यासाधने गाणेश्वरकल्पवर्णनंनामैकषष्टितमोऽध्यायः
क्षेत्रनाथः कथं जज्ञे वदैतच्छृण्वतां हि नः
शिवं देव्या सहासीनं प्रणिपत्येदमब्रुवन्
देव दैत्येन घोरेण दुर्जयेन सुरासुरैः
न विष्णुना न चंद्रेण न चान्येनापि केनचित्
तेन संपीड्यमानानामस्माकं शरणं भव
ततोऽतिकृपयाविष्टहरकंठस्य कालिमाम्
आत्मशक्तिं तत्र मुक्त्वा प्रोवाचेदं वचः शुभा
देवारिं च दुरात्मानं शीघ्रं नाशय शोभने
रवेणैव मृतं चक्रे सानुगं स्फुटितहृदम्
यैरासन्विकला लोकास्त्रयोऽपि प्रमृता यथा 1.2.62.
रुदंस्तस्याः समीपे चाप्यागतः प्रेतसद्मनि
कालिकाऽपाययत्स्तन्यं मा रुदेति प्रजल्पती
योऽसौ हरकंठभवविषादासीत्सुदुर्धरः
बालोऽपि बालरूपं तत्त्यक्तुमैच्छत्कृतक्रिहया:
ततो देवाः कालिकायाः शंकमानाः पुनर्भयम्
अस्ति चेद्भवतां भीतिरन्यान्स्रक्ष्यामि बालकान्