तत्र त्रिभुवने याश्च संति देव्यः पृथग्विधाः
चतस्रस्तस्य दिग्देव्यो नव दुर्गाश्च संति याः
नित्यं पूजय ताः पुत्र पुष्पधूपविलेपनैः 1.2.61.
तुष्टासु देवीषु बलं धनं च कीर्तिश्च पुत्राः सुभगाश्च दाराः
घटोत्कचार्य पुत्रस्ते दृढं सुहृदयो ह्यसौ
तस्मात्सुहृदयेत्येवं दत्तं नाम मया द्विकम्
गुप्तक्षेत्राय भगवान्बर्बरीकं समादिशत्
अनुज्ञाप्य च तान्सर्वान्गुप्तक्षेत्रं समाव्रजत्
स्मरन्पुत्रगुणान्पत्न्या स्वराज्यं समपालयत्
त्रिकालं पूजयामास देवीः कर्मसमाधिभिः
तस्याराधयतो देव्यस्तुतुषुर्हायनैस्त्रिभिः
बलं यत्त्रिषु लोकेषु कस्यचिन्नास्ति दुर्लभम्
संगत्या विजयस्य त्वं भूयः श्रेयो ह्यवाप्स्यसि 1.2.61.
आजगामाथ विजयो नाम्ना मागधब्राह्मणः
काश्यां विद्याबलं प्राप्य साधनार्थमुपाययौ
आराधयामास चिरं देवीर्विद्याफलाप्तये
विद्यां साधय त्वं साधो सिद्धमातुः पुरोंऽगणे
ततस्तद्वचनं श्रुत्वा विजयः स्वप्नमध्यतः
सोऽपि देवीवचः श्रुत्वा मेने साहाय्यकारणम्
स्नात्वाभ्यर्च्यैव लिंगानि देवीश्चैवार्चयत्पृथक्
प्रथमायां ततो रात्रौ ययौ सिद्धांबिकापुरः
अष्टदिक्ष्वष्टकीलांश्च निखन्यैव ससूत्रकान्
शिखामाबद्ध्य दिग्बंधं कृत्वा रेभे ततो विधिम् 1.2.61.
समर्प्य च ततः खड्गं खादिरं मंत्रतेजितम्
शुचिर्विनिद्रः संतिष्ठ स्तवं देव्याः समुद्गिरन्
इत्युक्ते संस्थिते तत्र बर्बरीके महाबले
ततः सुखासनो भूत्वा गुंगुरुभ्यो नमः इति ततो गणेश्वरविधानमारब्धवान्
अथातः संप्रवक्ष्यामि मंत्रं गणपतेः परम्
सर्वकार्यकरं स्वल्पं महार्थं सर्वसिद्धिदम्
ॐगांगींगूंगैंगौंगः सप्ताक्षरोऽयं महामंत्रः साध कस्य पूर्वं तिलककरणम् इति तिलकस्योपरि अक्षतान्दद्यात् अनेन मन्त्रेण इति तिलकमंत्रः अनेन मंत्रेण गणेशाय पुष्पांजलित्रयं दद्यात् अत ऊर्ध्वं मूलमन्त्रेण जपं कुर्यात् ॐ गां गणपतये स्वाहेति मन्त्रेण गुग्गुलगुटिकाभिर्होमं विदध्याद्विनियोगं चेति गाणेश्वरो ता?कल्पः सर्वविघ्नानि नश्यंति मनोभीष्टं च सिध्यति