यद्वा तिरश्चामप्यत्र स्थावराणां च देहिनाम्
नृणां च दर्शनाद्दूरे कैवल्यं स्मरणेन वा
शुभाय तैजसी मूर्तिः स्थावरा मम शाश्वती
युगात्ययेपि नैनं तु मज्जयेयुर्महाब्धयः
ज्योतिर्मयमिदं लिंगं ज्योतिःष्वपि न जातुचित्
यस्यानुग्रहमिच्छामि जंतो्तस्यात्र संभवः 1.3.2.16.
एष दूरात्प्रणामेन निकर्षाच्च प्रदक्षिणात्
अत्रैव नियतं वासाः संभवंति महात्मनाम्
शोणाचलमनादृत्य क्वचित्स्थित्वापि मुक्तये
तौ व्यज्ञापयतां देवं दूरीभवदहंक्रियौ
आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम्
अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत्
विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये
शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात्
एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात्
तच्चारुणगिरीशानमावामाराधयावहे 1.3.2.16.
संत्यत्र केशराश्चूता नागपुंनागकेसराः
अत्रैव सन्निधातव्यं देवदेव दयानिधे
नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि
शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः
सांगवेदा धर्मशास्त्रं पुराणानि शिवागमाः
निश्रेयसाय भक्तानां त्वयैव गुरुरूपिणा
तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनाम्
जगाद करुणामूर्त्तिर्जगतीभृत्सुतापतिः
कामिकोक्तेन मार्गेण मामर्चयितुमर्हथः
मोहतो विस्मृता मन्ये भवद्भ्यां शैवसंहिता 1.3.2.16.
तदा प्रादुरभूत्तत्र लिंगं किमपि मंगलम्
तच्चावलोक्य साश्चर्य्यौ मुकुन्दकमलासनौ
तावकारयतां शोणगिरिनाथस्य चालयम्
खानयामासतुस्तत्र सरः किमपि पावनम्