चंद्रबिंबनिभं कार्य्यं मंडलं शुभतंडुलैः
चतुरस्रेषु संपूर्णान्कलशान्स्थापयेद्बहिः
चंद्राय विधवे नित्यं नमः कुमुदबंधवे ।। 2.8.3.
सुधांशवे च सोमाय ओषधीशाय वै नमः
नमो नक्षत्रनाथाय शर्वरीपतये नमः
एवं षोडशभिश्चंद्रः स्तोतव्यो नामभिः क्रमात्
ततो वै प्रयतो दद्याद्विधिवन्मंत्रपूर्वकम्
नमस्ते मासमासांते जायमान पुनःपुनः
एवं संपूज्य विधिवच्छशिनं प्रणतो भवेत्
सवस्त्राच्छादनाः शांत्यै दातव्यास्ते द्विजन्मने
ऋत्विजां मनसस्तुष्टिः कार्या वित्तानुमानतः
पूजनीयौ प्रयत्नेन वस्त्रैश्च द्विजदंपती
प्रतिमाश्च प्रदातव्या द्विजेभ्यो धेनुपूर्विकाः दातव्यं चंद्रसुप्रीत्यै हर्षादेवं द्विजन्मने ।। 2.8.3.
उपवासविधानेन दिनशेषं नयेत्सुधीः बांधवैः सह भुञ्जीत नियमं च विसर्ज्जयेत्
एवं च कुरुते चंद्रसहस्रं व्रतमुत्तमम् व्रतेनानेन शुद्धात्मा चंद्रलोकं व्रजेन्नरः
यादृशश्च भवेद्विप्र प्रियो नारायणस्य च
देवो धर्महरिर्न्नाम कलिकल्मषनाशकः
वेदवेदाङ्गतत्त्वज्ञः स्वकर्मपरिनिष्ठितः
आगत्य च चकारोच्चैर्यात्रां तत्रादरेण सः
विधाय स्वभुजावूर्ध्वौ विप्रोऽवोचन्मुदान्वितः
अयोध्यासदृशी कापि दृश्यते नापरा पुरी
यस्यां स्थितो हरिः साक्षात्सेयं केनोपमीयते
अहो विष्णुरहो तीर्थमयोध्याऽहो महापुरी
इत्युक्त्वा तत्र बहुशो ननर्त प्रमदाकुलः
तं तथा नर्तमानं वै धर्मं दृष्ट्वा कृपान्वितः तं प्रणम्य च धर्मोऽथ तुष्टाव हरिमादरात्
नमः शंकरसंस्पृष्टदिव्यपादाय विष्णवे ।। 2.8.4.
भक्त्यार्च्चितसुपादाय नमोऽजादिप्रियाय ते
नमोऽरविन्दपादाय पद्मनाभाय वै नमः
ॐ नमो योगनिद्राय योगर्क्षैर्भावितात्मने
सुकेशाय सुनासाय सुललाटाय चक्रिणे