अतः परं तु यच्छ्रेयं कर्तव्यं प्रोन्नतिप्रदम्
बर्बराकारकेशत्वाद्बर्बरीकाभिधो भवान्
श्रेयश्च ते यत्परमं दृढं च तत्कीर्त्यते बहुधा विप्र मुख्यैः
पुत्रेणानुगतो धीमान्वियता द्वारकां ययौ
आगच्छन्तं च तंदृष्ट्वा राक्षसं राक्षसानुगम्
ग्रामे ग्रामे सुसंनद्धा नवलक्षमिता रथाः
तान्गृहीतायुधान्दृष्ट्वा यदुवीरान्घटोत्कचः
राक्षसं वित्त मां वीरा भीमपुत्रं घटोत्कचम्
निवेदयत मां प्राप्तं यादवेन्द्राय सात्मजम्
आह देवः सभास्थश्च शीघ्रमत्राव्रजत्वसौ
सपुत्रः सोऽपि रम्याणि वनान्युपवनानि च
स तत्र उग्रसेनं च वसुदेवं च सात्यकिम्
तं पादयोर्निपतितं समालिंग्य सहात्मजम् 1.2.61.
पुत्र राक्षसशार्दूल कुरूणां कुलवर्धन
श्रूयतां कारणं स्वामिन्यदर्थमहमागतः
देवोपदिष्ट भार्यायां जातोऽयं तनयो मम
यथा घटोत्कचो मह्यं सुप्रियश्च तथा भवान्
प्रक्ष्यामि केन श्रेयः स्याज्जंतोर्जातस्य माधव
केचिच्छ्रेयो धर्ममाहुरैश्वर्यं त्यागभोजनम्
तदेवं शतसंख्येषु श्रेयस्सु पुरुषोत्तम
ब्राह्मणानां तपो मूलं दमोऽध्ययनमेव च
धर्मप्रकटनं चापि श्रेय उक्तं मनीषिभिः
दुष्टानां शासनं चापि साधूनां परिपालनम् 1.2.61.
शूद्रस्य द्विजशुश्रूषा तया जीवन्वणिग्भवेत्
भार्यारतिर्भृत्यपोष्टा शुचिः श्रद्धा परायणः
तद्भवान्क्षत्रियकुले जातोऽसि कुरु तच्छृणु
दुष्टान्पालय साधूंश्च स्वर्गमेवमवाप्स्यसि
तद्भवान्बलप्राप्त्यर्थं देव्याराधनमाचर
एतत्प्रसादप्रवणं मनः कृत्वा निवेदय
वत्स क्षेत्रं प्रवक्ष्यामि यत्र तप्स्यसि तत्तपः