कुरूणां राक्षसानां च प्रोक्तोत्तमविधानतः
कुंती च द्रौपदी चोभे मुमुदाते नितांततः
ततो विवाहे निर्वृत्ते प्रतिपूज्य घटोत्कचम्
मौर्व्याऽऽज्ञां शिरसा गृह्य हैडंबिर्भार्ययान्वितः
ततो राक्षसयोषाभिर्वीरकांस्यैः प्रवर्धितः 1.2.60.
ततो वनेषु चित्रेषु निम्नगापुलिनेषु च
एवं विक्रीडतस्तस्य गर्भो जज्ञे महाद्युतेः
स जातमात्रो ववृधे क्षणाद्यौवनगोऽभवत्
ऊर्ध्वकेशश्चोर्ध्वरोमा पितरौ प्रणतोऽब्रवीत्
भवतोर्हि प्रियं कृत्वा अनृणः स्यां सदा ह्यहम्
अतः परं तु यच्छ्रेयं कर्तव्यं प्रोन्नतिप्रदम्
बर्बराकारकेशत्वाद्बर्बरीकाभिधो भवान्
श्रेयश्च ते यत्परमं दृढं च तत्कीर्त्यते बहुधा विप्र मुख्यैः
पुत्रेणानुगतो धीमान्वियता द्वारकां ययौ
आगच्छन्तं च तंदृष्ट्वा राक्षसं राक्षसानुगम्
ग्रामे ग्रामे सुसंनद्धा नवलक्षमिता रथाः
तान्गृहीतायुधान्दृष्ट्वा यदुवीरान्घटोत्कचः
राक्षसं वित्त मां वीरा भीमपुत्रं घटोत्कचम्
निवेदयत मां प्राप्तं यादवेन्द्राय सात्मजम्
आह देवः सभास्थश्च शीघ्रमत्राव्रजत्वसौ
सपुत्रः सोऽपि रम्याणि वनान्युपवनानि च
स तत्र उग्रसेनं च वसुदेवं च सात्यकिम्
तं पादयोर्निपतितं समालिंग्य सहात्मजम् 1.2.61.
पुत्र राक्षसशार्दूल कुरूणां कुलवर्धन
श्रूयतां कारणं स्वामिन्यदर्थमहमागतः
देवोपदिष्ट भार्यायां जातोऽयं तनयो मम
यथा घटोत्कचो मह्यं सुप्रियश्च तथा भवान्
प्रक्ष्यामि केन श्रेयः स्याज्जंतोर्जातस्य माधव
केचिच्छ्रेयो धर्ममाहुरैश्वर्यं त्यागभोजनम्
तदेवं शतसंख्येषु श्रेयस्सु पुरुषोत्तम