इति हैडंबिवचनं श्रुत्वा कामकटंकटा
धिगहं यन्मया पूर्वं समयः स कृतोऽभवत्
इति संचिन्तयन्ती सा भैमिं वचनमब्रवीत्
अथ कामयसे मां त्वं तत्कथां शीघ्रमुच्चर ततोऽहं वशगा जाता हतो वा स्वप्स्यसे मया
स्मृत्वा चराचरगुरुं कृष्णमारब्धवान्कथाम्
तस्य चैका सुता जज्ञे भार्या तस्य मृताऽभवत् 1.2.60.
सा यदाभूद्यौवनगा व्यंजितावयवा शुभा
तदास्य कामलुलितमालानं प्रजहौ मनः
प्रातिवेश्मकपुत्री त्वं मयानीयात्र पोषिता
इत्युक्ता सा च मेने च तत्तथैव वचस्तदा
ततस्तस्यां सुता जज्ञे तस्मान्मदनरासभात् एनं प्रश्नं मम ब्रूहि शीघ्रं चेच्छक्तिरस्ति ते
न च पश्यति निर्द्धारं प्रश्नस्यास्य कथंचन
अताडयद्रुक्मरज्जुं कराभ्यां दोलकस्य च
सिंहव्याघ्रवराहाश्च महिषाश्चित्रका मृगाः
अवादयन्नखौ भैमिः कनिष्ठांगुष्ठजौ हसन् 1.2.60.
तैर्मौर्वीनिर्मिताः सर्वे क्षणादेव स्म भक्षिताः
उत्थाय सहसा दोलात्खड्गमादातुमैच्छत
केशेष्वादाय सव्येन पाणिनाऽपातयद्भुवि
दक्षिणेन करेणास्याश्छेत्तुमैच्छत नासिकाम्
प्रश्नेन शक्त्या च बलेन नाथ त्रिधा त्वयाहं विजिता नमस्ते
एवमुक्त्वा मुमोचैनां मुक्ता चाह प्रणम्य सा
जानामि त्वां महाबाहो वीरं शक्तिमतां वरम्
गुह्यकाधिपतिस्त्वं हि कालनाभ इति स्मृतः
इति मां प्राह कामाख्या सर्वं तत्संस्मराम्यहम्
समादिश प्राणनाथ कमादेशं करोमि ते घटोत्कच उवाच प्रच्छन्नस्तस्य घटते न विवाहः कथंचन ।। 1.2.60.
मोर्वि यस्य हि वर्तंते पितरौ बांधवास्तथा
अयं कुलक्रमोऽस्माकं यद्भार्या पतिमुद्वहेत्
भगदत्तमथो नाथं ततो मौर्वी न्यवेदयत्
ततः पृष्ठिं समारोप्य घटोत्कचमनिंदिता
ततोऽसौ वासुदेवेन पांडवैश्चाभिनंदितः