तदासाद्य स हैडंबिर्मेरोः शिखरवद्ग्रहम्
तामाह ललितं वीरो भद्रे सा क्व मुरोः सुता
कोटिशो निहताः पूर्वं तया कामुक कामुकाः
तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम्
तन्मया सह मोदस्व भुंक्ष्व भोगांश्च कामुक
पुनर्नैतद्वचस्तुभ्यं विशते मम चेतसि
वामः कामो यतो भद्रे यस्मिन्नुपनिबद्ध्यते 1.2.60.
अद्य ते स्वामिनी दृष्टा जिता वा क्रीडते मया
कर्णप्रावरणे तस्माच्छीघ्रमेव निवेद्यताम्
इति भैमेर्वचः श्रुत्वा प्रस्खलंती निशाचरी
देवि कोऽपि युवा श्रीमांस्त्रैलोक्येष्वमितप्रभः
कदाचिद्देवसंगत्या समयो मेऽभिपूर्यते
इत्युक्तवचनाच्चेटी प्राप्यावोचद्घटोत्कचम्
इत्युक्तः स प्रहस्यैव तत्रोत्सृज्य स्वकानुगान्
स पश्यञ्छुकसंघातान्पारावतगणांस्तथा
रूपेण वयसः चैव रतेरपि रतिंकरीम्
तां विद्युतमिवोन्नद्धां दृष्ट्वा भैमिरचिंतयत 1.2.60.
न्याय्यमेतत्कृते पूर्वं नष्टा यत्कामिनां गणाः
कामिनीनां कृते येषां क्षीयते गणनात्र का
निष्ठुरे वज्रहृदये प्राप्तोऽहमतिथिस्तव
इति हैडंबिवचनं श्रुत्वा कामकटंकटा
धिगहं यन्मया पूर्वं समयः स कृतोऽभवत्
इति संचिन्तयन्ती सा भैमिं वचनमब्रवीत्
अथ कामयसे मां त्वं तत्कथां शीघ्रमुच्चर ततोऽहं वशगा जाता हतो वा स्वप्स्यसे मया
स्मृत्वा चराचरगुरुं कृष्णमारब्धवान्कथाम्
तस्य चैका सुता जज्ञे भार्या तस्य मृताऽभवत् 1.2.60.
सा यदाभूद्यौवनगा व्यंजितावयवा शुभा
तदास्य कामलुलितमालानं प्रजहौ मनः
प्रातिवेश्मकपुत्री त्वं मयानीयात्र पोषिता
इत्युक्ता सा च मेने च तत्तथैव वचस्तदा