अंतरात्मा च मे वेत्ति प्राप्तामेव मुरोः सुताम्
प्रवृत्ता एव भासंते सद्गुणाश्च रवेः कराः
सर्वथा तत्करिष्यामि पितरो येन मेऽमलाः 1.2.59.
एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान्
तं गतुकाममाहेदमभिनंद्य जनार्दनः
यथा बुद्धिं सुदुर्भेद्यां वर्धयामि बलं च ते
ततो हिडंबातनयो महौजाः सूर्याक्षकालाक्षमहोदरानुगः
सहस्रभूमिकं गेहमपश्यत हिरण्मयम्
वेणुवीणामृदंगानां निःस्वनैः परिपूरितम्
आयाद्भिः प्रतियाद्भिश्च भगदत्तस्य किंकरैः
तदासाद्य स हैडंबिर्मेरोः शिखरवद्ग्रहम्
तामाह ललितं वीरो भद्रे सा क्व मुरोः सुता
कोटिशो निहताः पूर्वं तया कामुक कामुकाः
तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम्
तन्मया सह मोदस्व भुंक्ष्व भोगांश्च कामुक
पुनर्नैतद्वचस्तुभ्यं विशते मम चेतसि
वामः कामो यतो भद्रे यस्मिन्नुपनिबद्ध्यते 1.2.60.
अद्य ते स्वामिनी दृष्टा जिता वा क्रीडते मया
कर्णप्रावरणे तस्माच्छीघ्रमेव निवेद्यताम्
इति भैमेर्वचः श्रुत्वा प्रस्खलंती निशाचरी
देवि कोऽपि युवा श्रीमांस्त्रैलोक्येष्वमितप्रभः
कदाचिद्देवसंगत्या समयो मेऽभिपूर्यते
इत्युक्तवचनाच्चेटी प्राप्यावोचद्घटोत्कचम्
इत्युक्तः स प्रहस्यैव तत्रोत्सृज्य स्वकानुगान्
स पश्यञ्छुकसंघातान्पारावतगणांस्तथा
रूपेण वयसः चैव रतेरपि रतिंकरीम्
तां विद्युतमिवोन्नद्धां दृष्ट्वा भैमिरचिंतयत 1.2.60.
न्याय्यमेतत्कृते पूर्वं नष्टा यत्कामिनां गणाः
कामिनीनां कृते येषां क्षीयते गणनात्र का
निष्ठुरे वज्रहृदये प्राप्तोऽहमतिथिस्तव