भिक्षोः कपालमापूर्य रुधिरेणात्मनो हरिः
न चेदशिक्षयः सर्वशस्त्रास्त्राण्यनुकंपया
नृहरिं शरभाकारः समहार्षीन्न चेद्भवान्
त्वमाचकृक्षः कल्पाब्धौ कैवर्त्तो मत्स्यकच्छपौ
एकोने पद्मसाहस्रे स्वनेत्रेण कृतार्चनम्
धूर्जटिः सृष्टिकर्तृत्वं पुनरस्याभ्यमन्यत ।। 1.3.2.16.
समँज्यासु द्विजानां च पूजनं चानुशिष्टवान्
गुरुं स्मरतो मामेव जाग्रतं सृष्टिरक्षयोः
इह प्रदेशे युवयोर्यन्मयानुग्रहः कृतः
योजनत्रयमात्रेऽस्मिन्क्षेत्रे निवसतां नृणाम्
यद्वा तिरश्चामप्यत्र स्थावराणां च देहिनाम्
नृणां च दर्शनाद्दूरे कैवल्यं स्मरणेन वा
शुभाय तैजसी मूर्तिः स्थावरा मम शाश्वती
युगात्ययेपि नैनं तु मज्जयेयुर्महाब्धयः
ज्योतिर्मयमिदं लिंगं ज्योतिःष्वपि न जातुचित्
यस्यानुग्रहमिच्छामि जंतो्तस्यात्र संभवः 1.3.2.16.
एष दूरात्प्रणामेन निकर्षाच्च प्रदक्षिणात्
अत्रैव नियतं वासाः संभवंति महात्मनाम्
शोणाचलमनादृत्य क्वचित्स्थित्वापि मुक्तये
तौ व्यज्ञापयतां देवं दूरीभवदहंक्रियौ
आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम्
अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत्
विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये
शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात्
एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात्
तच्चारुणगिरीशानमावामाराधयावहे 1.3.2.16.
संत्यत्र केशराश्चूता नागपुंनागकेसराः
अत्रैव सन्निधातव्यं देवदेव दयानिधे
नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि
शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः