एवमेषोचिता दारा हैडंबेर्विद्यते शुभा
न च रूपं वर्णितं मे श्वशुरस्योचितं यतः
पुनरेकश्च समयः कृतस्तं शृणु यस्तया 1.2.59.
यो मे प्रतिबलश्चापि स मे भर्ता भविष्यति
तस्या जयार्थमगमंस्तेऽपि जित्वा हतास्तया
वह्नेरिव प्रभां दीप्तां पतंगानां समुच्चयः
घटोत्कचो महावीर्यो भार्यास्य नियतं भवेत्
क्रियते किं हि क्षीरेण यदि तद्विषमिश्रितम्
प्राणाधिकं भैमसेनिं कथं केवलसाहसात्
अन्या अपि स्त्रियः संति देशे देशे जनार्दन
राज्ञा पुनः स्नेहवशाद्यदुक्तं तन्न भाति मे
कार्ये दुःसाध्य एव स्यात्क्षत्रियस्य पराक्रमः
आत्मा प्रख्यातिमानेयः सर्वथा वीरपुंगवैः 1.2.59.
न ह्यात्मवशगं पार्थ हैडंबेरस्य रक्षणम्
सर्वथोच्चपदारोहे यत्नः कार्यो विजानता
यथा देवव्रतस्त्वेको जह्रे काशिसुताः पुरा
अबलं दैवहेतुत्वात्प्रबलं प्रतिभाति मे
न मृषा हि वचो ब्रूते कामाख्या या पुराऽब्रवीत्
अनेन हेतुना यातु शीघ्रं तत्र घटोत्कचः
न हि तुल्यो भैमसेनेर्बुद्धौ वीर्ये च कश्चन
अंतरात्मा च मे वेत्ति प्राप्तामेव मुरोः सुताम्
प्रवृत्ता एव भासंते सद्गुणाश्च रवेः कराः
सर्वथा तत्करिष्यामि पितरो येन मेऽमलाः 1.2.59.
एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान्
तं गतुकाममाहेदमभिनंद्य जनार्दनः
यथा बुद्धिं सुदुर्भेद्यां वर्धयामि बलं च ते
ततो हिडंबातनयो महौजाः सूर्याक्षकालाक्षमहोदरानुगः
सहस्रभूमिकं गेहमपश्यत हिरण्मयम्
वेणुवीणामृदंगानां निःस्वनैः परिपूरितम्
आयाद्भिः प्रतियाद्भिश्च भगदत्तस्य किंकरैः