एवं बहूनि वाक्यानि तानि तानि वदन्नृपः
पुंडरीकाक्ष जानासि यथा भीमादभूदयम्
अष्टानां देवयोनीनां यतो जन्म च यौवनम् ।। 1.2.59.
तदस्योचितदारार्थे सदा चिंतास्ति कृष्ण मे
तद्भवान्कृष्णसर्वज्ञ त्रिलोकीमपि वेत्सि च
धर्मराजमिदं वाक्यं पदांतरितमब्रवीत्
अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम्
सा च पुत्री मुरोः पार्थ दैत्यस्याद्भुतकर्मणः
स च मे निहतो घोरः पाशदुर्गसमन्वितः
ततो हते मुरौ दैत्ये मया तस्य सुताव्रजत्
तां ततोऽहं महायुद्धे खड्गखेटकधारिणीम्
खड्गेन चिच्छेद बाणान्मम सा च मुरोः सुता
स च मोहसमाविष्टो गरुडोऽभूदचेतनः 1.2.59.
चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे
नैनां हंतुं भवानर्हो रक्षैतां पुरुषोत्तम
बुद्धिरप्रतिमा चापि शक्तिश्च परमा रणे
एवमुक्ते तदा देवीं वचनं चाहमब्रवम्
ततश्चालिंग्य तां भक्तां कामाख्या वाक्यमब्रवीत्
शक्यः केनापि समरे माधवो रणदुर्जयः
अपि वा त्र्यंबकः पुत्रि नैनं शक्तः कुतोऽन्यकः
रणादस्मान्निवर्तस्व तवोचितमिदं स्फुटम्
तस्मात्त्वं श्वशुरं भद्रे सम्मानय जनार्दनम्
जातस्य हि ध्रुवो मृत्युर्ध्रुव जन्म मृतस्य च 1.2.59.
ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यविद्यान्पुरुषान्नृपांश्च
श्लाघ्य एव हि ते मृत्युः पितुरस्माज्जनार्दृनात्
एवं कामाख्यया प्रोक्ता सा च कामकटंकटा
तामहं साशिषं चापि प्रावोचं भरतर्षभ
मया देव्या पृथिव्या च भगदत्तः कृतो नृपः
वसंती चात्र तं वीरं हैडिंबं पतिमाप्स्यसि
सा स्थिता च पुरे तत्र गतोऽहं शक्रसद्म च