मामुवाच सदा पुत्र पितॄणां भक्तिकृद्भव
प्रणामायैव भवतां भक्तिप्रह्वेण चेतसा भवद्भिरहमिच्छामि फलं यस्मादिदं महत्
यदाज्ञापालनं पुत्रः पितॄणां सर्वदा चरेत् 1.2.59.
उवाच धर्मराट् पुत्रमानंदाश्रुः सगद्गदम्
त्वमेव नो भक्तिकारी सहायश्चापि वर्तसे
एतदर्थं च हैडंबे पुत्रानिच्छंति साधवः
अवश्यं यादृशी माता तादृशस्तनयो भवेत्
अहो सुदुष्करं देवी कुरुते मे प्रिया वधूः
नूनं कामेन भोगैर्वा कृत्यं वध्वा न मे मनाक्
दुष्कुलीनापि या भक्ता सूतेऽपत्यं च भक्तिमत्
एवं बहूनि वाक्यानि तानि तानि वदन्नृपः
पुंडरीकाक्ष जानासि यथा भीमादभूदयम्
अष्टानां देवयोनीनां यतो जन्म च यौवनम् ।। 1.2.59.
तदस्योचितदारार्थे सदा चिंतास्ति कृष्ण मे
तद्भवान्कृष्णसर्वज्ञ त्रिलोकीमपि वेत्सि च
धर्मराजमिदं वाक्यं पदांतरितमब्रवीत्
अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम्
सा च पुत्री मुरोः पार्थ दैत्यस्याद्भुतकर्मणः
स च मे निहतो घोरः पाशदुर्गसमन्वितः
ततो हते मुरौ दैत्ये मया तस्य सुताव्रजत्
तां ततोऽहं महायुद्धे खड्गखेटकधारिणीम्
खड्गेन चिच्छेद बाणान्मम सा च मुरोः सुता
स च मोहसमाविष्टो गरुडोऽभूदचेतनः 1.2.59.
चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे
नैनां हंतुं भवानर्हो रक्षैतां पुरुषोत्तम
बुद्धिरप्रतिमा चापि शक्तिश्च परमा रणे
एवमुक्ते तदा देवीं वचनं चाहमब्रवम्
ततश्चालिंग्य तां भक्तां कामाख्या वाक्यमब्रवीत्
शक्यः केनापि समरे माधवो रणदुर्जयः
अपि वा त्र्यंबकः पुत्रि नैनं शक्तः कुतोऽन्यकः