स्तम्भतीर्थमिति ख्यातं सर्वतीर्थफलप्रदम्
यथोक्तं च फलं तस्य स्फुटं सर्वं भविष्यति 1.2.58.
महीसागरयात्रायां भवेत्तच्चावधारय
अष्टाभिश्च प्रयागस्य तत्फलं प्रभविष्यति
अर्बुदस्य च यत्षड्भिस्तत्फलं च भविष्यति
कूपोदर्याश्चतुर्भिश्च तत्फलं प्रभविष्यति
तत्फलं स्तंभतीर्थे वै शनिदर्शे भविष्यति
ब्रह्मापि स्तंभतीर्थाय ददावर्घं समाहितः
तीर्थानि च गुहं नाथं सम्मान्य विससर्ज सः
भूयश्चापि प्रसिद्ध्यर्थं प्रेषिताप्सरसोऽत्र मे
यतो धर्मस्य सर्वस्य नानारूपैः प्रवर्ततः
तदिदं वर्णितं तुभ्यं सर्वतीर्थफलं महत् 1.2.58.
विसृष्टो नारदाद्यैश्च द्वारकां प्रति जग्मिवान्
महन्माहात्म्यमतुलं कीर्तितं हर्षवर्धनम्
पुनर्यत्सिद्धलिंगस्य पूर्वं माहात्म्यकीर्तने
विजयोनाम पुण्यात्मा साहाय्याच्चंडिलस्य च
कथं च प्राप्तवान्सिद्धिं सिद्धमातुः प्रसादतः
सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत्
श्रुता द्वैपायनमुखात्कथां वक्ष्यामि चात्र वः
धृतराष्ट्रमते पश्चादिंद्रप्रस्थं न्यवेशयन्
उपविष्टाः सभामध्ये कथाश्चक्रुः पृथग्विधाः
क्रियमाणेऽथ तत्रागाद्भीमपुत्रो घटोत्कचः
उत्थाय सहसा पीठादालिलिंगुर्मुदा युताः 1.2.59.
साशिषं च ततो राज्ञा स्वोत्संग उपवेशितः
कालः क्वचित्सुखं राज्यं कुरुषे मातुलं तव
कश्चिद्देवेषु विप्रेषु गोषु साधुषु सर्वदा
हेडंबस्य वनं सर्वं तस्य ये सैन्यराक्षसाः
कच्चिन्नंदति ते माता भृशं नः प्रियकारिणी
इति पृष्टो धर्मराज्ञा स्मयन्हैडंबिरब्रवीत्
तद्राज्यं शासने स्थाप्य दुष्टान्निघ्नंश्चराम्यहम्