अहं प्रस्तावमन्वीक्ष्य वाक्यमेतदुदैरयम्
ब्रह्मविष्णुशिवैर्नित्यं पूजितायाघनाशिने 1.2.58.
तदस्माकं कुतो भावो मा विश्वं नाशय प्रभो
शिववन्माननीयो हि यतः साक्षाच्छिवात्मजः
युवयोरैक्यभावेन सुखं जीवेदिदं जगत्
अनुग्रहश्च क्रियतां तीर्थराजस्य मानद
एवमुच्चरमाणं मां प्रशस्याहापि पद्मभूः
सम्मानय गुहं चापि गुहः स्वामी यतो हि नः
नमो गुहाय सिद्धाय किंकरायस्य ते वयम्
स्तंभादेतन्महातीर्थमप्रसिद्धं भविष्यति
स्तम्भतीर्थमिति ख्यातं सर्वतीर्थफलप्रदम्
यथोक्तं च फलं तस्य स्फुटं सर्वं भविष्यति 1.2.58.
महीसागरयात्रायां भवेत्तच्चावधारय
अष्टाभिश्च प्रयागस्य तत्फलं प्रभविष्यति
अर्बुदस्य च यत्षड्भिस्तत्फलं च भविष्यति
कूपोदर्याश्चतुर्भिश्च तत्फलं प्रभविष्यति
तत्फलं स्तंभतीर्थे वै शनिदर्शे भविष्यति
ब्रह्मापि स्तंभतीर्थाय ददावर्घं समाहितः
तीर्थानि च गुहं नाथं सम्मान्य विससर्ज सः
भूयश्चापि प्रसिद्ध्यर्थं प्रेषिताप्सरसोऽत्र मे
यतो धर्मस्य सर्वस्य नानारूपैः प्रवर्ततः
तदिदं वर्णितं तुभ्यं सर्वतीर्थफलं महत् 1.2.58.
विसृष्टो नारदाद्यैश्च द्वारकां प्रति जग्मिवान्
महन्माहात्म्यमतुलं कीर्तितं हर्षवर्धनम्
पुनर्यत्सिद्धलिंगस्य पूर्वं माहात्म्यकीर्तने
विजयोनाम पुण्यात्मा साहाय्याच्चंडिलस्य च
कथं च प्राप्तवान्सिद्धिं सिद्धमातुः प्रसादतः
सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत्
श्रुता द्वैपायनमुखात्कथां वक्ष्यामि चात्र वः
धृतराष्ट्रमते पश्चादिंद्रप्रस्थं न्यवेशयन्