तं च ब्रह्मा करे गृह्य तीर्थान्याहेति भारतीम्
सर्वैर्भवद्भिः संहत्य मुख्यस्त्वेकः प्रकीर्त्यताम् 1.2.58.
अस्माद्धेतोश्च संप्राप्ता ज्ञात्वा देहि त्वमेव तत्
सर्वे चापारमाहात्म्यं स्वयं मे वक्तुमर्हथ
यत्र गंगा गया काशी पुष्करं नैमिषं तथा
प्रभासाद्यानि शतशो यत्र नस्तत्र का मतिः
चिरेणेदं ततः प्राह महीसागरसंगमः
ममैनमर्घं त्वं यच्छ चतुरानन शीघ्रतः
यतश्चेन्द्रद्युम्नराज्ञा ताप्यमाना वसुंधरा
सा च सर्वाणि तीर्थानि संयुक्तानि मया सह
गुहेन च महालिंगं कुमारेश्वरमीश्वरम्
नारदेनापि मत्तीरे स्थानं संस्थाप्य शोभनम् 1.2.58.
एवं त्रिभिर्हेतुवरैर्ममेवार्घः प्रदीयताम्
इत्युक्ते वचने पार्थ तीर्थराजेन भारत
ततो ब्रह्मसुतो ज्येष्ठः श्वेतमाल्यानुलेपनः
अहो कष्टमिदं कूक्तं तीर्थराजेन मोहतः
स्वीयान्गुणान्स्वयं यो हि सम्पत्सु प्रक्षिपन्परान्
तस्मादस्मादहंकारात्सत्स्वप्येषु गुणेषु च
स्तंभतीर्थमिति ख्यातं स्तम्भो गर्वः कृतो यतः
इत्युक्ते धर्मदेवेन हाहेति रव उत्थितः
गुहस्ततो वचः प्राह धर्मदेवसमागमे
ब्रवीतु कोऽपि सर्वेषां तीर्थानां तेषु वर्तताम् 1.2.58.
तिष्ठत्वात्मगुणो यच्च तीर्थराजेन वर्णितः
अहो न युक्तं पालानां यदि तेऽप्यविमृश्य च
एवमुक्ते गुहेनाथ धर्मो वचनमब्रवीत्
मुख्यत्वं सर्वतीर्थानामर्घं चापि पितामहात् परोक्षेपि स्वप्रशंसा ब्रह्माणमपि चालयेत्
स्वप्रशंसां प्रकुर्वाणः पराक्षेपसमन्विताम् यानि पूर्वं प्रमाणानि कृतानीशेन धीमता
तानि सम्पालनीयानि तानि कोऽति क्रमेद्बुधः
पालयामास एतच्च त्वं पालयितुमर्हसि
तदस्माभिरिदं युक्तं शासनं दिश्यतां परम्