तत्र तीर्थानि सर्वाणि समायातानि वीक्ष्य सः
प्रणम्य सर्वतीर्थेभ्यः प्रबद्धकरसंपुटः 1.2.58.
अद्य नः सद्म सकलं युष्माभिरतिपावितम्
तीर्थानां दर्शनं श्रेयः स्पर्शनं स्नानमेव च
महापापान्विता रौद्रास्त्वपि ये स्युः सुनिष्ठुराः
एवमुक्त्वा पुलस्त्यं स पुत्रमभ्यादिदेश ह
असंख्यानीह तीर्थानि दृश्यंते पद्मसंभव
धर्मप्रवचने श्लोको यत एष प्रगीयते
भवेयुर्यद्यसंख्याता अर्घयोग्याः समर्चने
एवं कुरुष्वैकमर्घमानय त्वं सुशीघ्रतः
तं च ब्रह्मा करे गृह्य तीर्थान्याहेति भारतीम्
सर्वैर्भवद्भिः संहत्य मुख्यस्त्वेकः प्रकीर्त्यताम् 1.2.58.
अस्माद्धेतोश्च संप्राप्ता ज्ञात्वा देहि त्वमेव तत्
सर्वे चापारमाहात्म्यं स्वयं मे वक्तुमर्हथ
यत्र गंगा गया काशी पुष्करं नैमिषं तथा
प्रभासाद्यानि शतशो यत्र नस्तत्र का मतिः
चिरेणेदं ततः प्राह महीसागरसंगमः
ममैनमर्घं त्वं यच्छ चतुरानन शीघ्रतः
यतश्चेन्द्रद्युम्नराज्ञा ताप्यमाना वसुंधरा
सा च सर्वाणि तीर्थानि संयुक्तानि मया सह
गुहेन च महालिंगं कुमारेश्वरमीश्वरम्
नारदेनापि मत्तीरे स्थानं संस्थाप्य शोभनम् 1.2.58.
एवं त्रिभिर्हेतुवरैर्ममेवार्घः प्रदीयताम्
इत्युक्ते वचने पार्थ तीर्थराजेन भारत
ततो ब्रह्मसुतो ज्येष्ठः श्वेतमाल्यानुलेपनः
अहो कष्टमिदं कूक्तं तीर्थराजेन मोहतः
स्वीयान्गुणान्स्वयं यो हि सम्पत्सु प्रक्षिपन्परान्
तस्मादस्मादहंकारात्सत्स्वप्येषु गुणेषु च
स्तंभतीर्थमिति ख्यातं स्तम्भो गर्वः कृतो यतः
इत्युक्ते धर्मदेवेन हाहेति रव उत्थितः