आख्यानं सकलं श्रुत्वा सर्वपापैः प्रमुच्यते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नीलकंठमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः
यस्य प्रभावः सुमहान्नैव कस्यापि संस्तुतः
शृणु पांडव शापेन गुप्तमासीदिदं यथा
पुरा निमित्ते कस्मिंश्चित्सर्वतीर्थाधिदैवताः
पुष्करस्य प्रभासस्य निमिषस्यार्बुदस्य च
वस्त्रापथस्य श्वेतस्य फल्गुतीर्थं स्य चापि याः
सिंधुसागरयोगस्य महीसागरकस्य च
गंगारेवामुखीनां तु नदीनामधिदेवताः
ते सर्वे संघशो भूत्वा श्रैष्ठ्य ज्ञानाय चात्मनः
तत्र तीर्थानि सर्वाणि समायातानि वीक्ष्य सः
प्रणम्य सर्वतीर्थेभ्यः प्रबद्धकरसंपुटः 1.2.58.
अद्य नः सद्म सकलं युष्माभिरतिपावितम्
तीर्थानां दर्शनं श्रेयः स्पर्शनं स्नानमेव च
महापापान्विता रौद्रास्त्वपि ये स्युः सुनिष्ठुराः
एवमुक्त्वा पुलस्त्यं स पुत्रमभ्यादिदेश ह
असंख्यानीह तीर्थानि दृश्यंते पद्मसंभव
धर्मप्रवचने श्लोको यत एष प्रगीयते
भवेयुर्यद्यसंख्याता अर्घयोग्याः समर्चने
एवं कुरुष्वैकमर्घमानय त्वं सुशीघ्रतः
तं च ब्रह्मा करे गृह्य तीर्थान्याहेति भारतीम्
सर्वैर्भवद्भिः संहत्य मुख्यस्त्वेकः प्रकीर्त्यताम् 1.2.58.
अस्माद्धेतोश्च संप्राप्ता ज्ञात्वा देहि त्वमेव तत्
सर्वे चापारमाहात्म्यं स्वयं मे वक्तुमर्हथ
यत्र गंगा गया काशी पुष्करं नैमिषं तथा
प्रभासाद्यानि शतशो यत्र नस्तत्र का मतिः
चिरेणेदं ततः प्राह महीसागरसंगमः
ममैनमर्घं त्वं यच्छ चतुरानन शीघ्रतः
यतश्चेन्द्रद्युम्नराज्ञा ताप्यमाना वसुंधरा
सा च सर्वाणि तीर्थानि संयुक्तानि मया सह