जयादित्यकूपवरे नरः स्नात्वा प्रयत्नतः
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडे कौमारिकाखंडे ब्रह्मेश्वरमोक्षेश्वर गर्भश्वरमाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः
महीनगरके पुण्ये स्थापयामास शंकरम्
लोकानां च हितार्थाय केदारं लिंगमुत्तमम्
अत्रिकुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत्
स्वयं दत्त्वा स्वयं तस्थौ महीनगरके शुभे
जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात्
न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः
आख्यानं सकलं श्रुत्वा सर्वपापैः प्रमुच्यते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नीलकंठमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः
यस्य प्रभावः सुमहान्नैव कस्यापि संस्तुतः
शृणु पांडव शापेन गुप्तमासीदिदं यथा
पुरा निमित्ते कस्मिंश्चित्सर्वतीर्थाधिदैवताः
पुष्करस्य प्रभासस्य निमिषस्यार्बुदस्य च
वस्त्रापथस्य श्वेतस्य फल्गुतीर्थं स्य चापि याः
सिंधुसागरयोगस्य महीसागरकस्य च
गंगारेवामुखीनां तु नदीनामधिदेवताः
ते सर्वे संघशो भूत्वा श्रैष्ठ्य ज्ञानाय चात्मनः
तत्र तीर्थानि सर्वाणि समायातानि वीक्ष्य सः
प्रणम्य सर्वतीर्थेभ्यः प्रबद्धकरसंपुटः 1.2.58.
अद्य नः सद्म सकलं युष्माभिरतिपावितम्
तीर्थानां दर्शनं श्रेयः स्पर्शनं स्नानमेव च
महापापान्विता रौद्रास्त्वपि ये स्युः सुनिष्ठुराः
एवमुक्त्वा पुलस्त्यं स पुत्रमभ्यादिदेश ह
असंख्यानीह तीर्थानि दृश्यंते पद्मसंभव
धर्मप्रवचने श्लोको यत एष प्रगीयते
भवेयुर्यद्यसंख्याता अर्घयोग्याः समर्चने
एवं कुरुष्वैकमर्घमानय त्वं सुशीघ्रतः