पुष्करादधिकं तीर्थं ब्रह्मेशंनाम फाल्गुन
दानं चैव यथाशक्त्या कार्तिक्यां च विशेषतः
पितरस्तस्य तुष्यंति यावदाभूतसंप्लवम्
गंगादिपुण्यतीर्थेषु यत्फलं प्राप्यते नरैः 1.2.56.
मोक्षलिंगस्य माहात्म्यं शृणु पार्थ महाद्भुतम्
स्थापितं प्रवरं लिंगं नाम्ना मोक्षेश्वरं हरम्
प्रसाद्य लोककर्तारं ब्रह्माणं परमेष्ठिनम्
कूपेऽस्मिन्मोक्षनाथस्य लोकानां प्रेतमुक्तये
कूपे स्नात्वा नरस्तस्यां तिलपिण्डं समाचरेत्
कुले न जायते तस्य प्रेतः पार्थ न संशयः
जयादित्यकूपवरे नरः स्नात्वा प्रयत्नतः
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडे कौमारिकाखंडे ब्रह्मेश्वरमोक्षेश्वर गर्भश्वरमाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः
महीनगरके पुण्ये स्थापयामास शंकरम्
लोकानां च हितार्थाय केदारं लिंगमुत्तमम्
अत्रिकुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत्
स्वयं दत्त्वा स्वयं तस्थौ महीनगरके शुभे
जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात्
न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः
आख्यानं सकलं श्रुत्वा सर्वपापैः प्रमुच्यते
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नीलकंठमाहात्म्यवर्णनंनाम सप्तपञ्चाशत्तमोऽध्यायः
यस्य प्रभावः सुमहान्नैव कस्यापि संस्तुतः
शृणु पांडव शापेन गुप्तमासीदिदं यथा
पुरा निमित्ते कस्मिंश्चित्सर्वतीर्थाधिदैवताः
पुष्करस्य प्रभासस्य निमिषस्यार्बुदस्य च
वस्त्रापथस्य श्वेतस्य फल्गुतीर्थं स्य चापि याः
सिंधुसागरयोगस्य महीसागरकस्य च
गंगारेवामुखीनां तु नदीनामधिदेवताः
ते सर्वे संघशो भूत्वा श्रैष्ठ्य ज्ञानाय चात्मनः