तथैवं सात्म्यमभ्येति योगिनामात्मा परात्मना
अत्रोपमां व्याहरंति योगार्थं योगिनोऽ मलाः
समुत्सृजति नैकः सन्नुपमा सास्ति योगिनः
ध्वस्ते यांत्यन्यतो दुःखं न तेषां सोपमा यतेः
करोति मृद्भागचयमुपदेशः स योगिनः
वृक्षं विलुप्यमानं च लब्ध्वा सिध्यंति योगिनः
सह तेन विवर्धेत योगी सिद्धिमुपाश्नुते
तुंगमार्गं विलोक्यैवं विज्ञातं कि न योगिनाम् 1.2.55.
येन निष्पाद्यते चार्थः स्वयं स्याद्योगसिद्धये
ज्ञानानां बहुता येयं योगविघ्नकरी हि सा
अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात्
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत्
स्यादयं तं च भुंजानो रौरवस्य प्रियातिथिः
यस्यैते नियता दंडाः स त्रिदंडी यतिः स्मृतः
न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुच्यते
अलौल्यमारोग्यमनिष्ठुरत्वं गंधः शुभो मूत्रपुरीषयोश्च
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकांतरतिर्जितेन्द्रियः
कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती च तेन 1.2.55.
विशुद्धबुद्धिः समलोष्टकांचनः समस्तभूतेषु वसन्समो हि यः
इदं मया योगरहस्यमुक्तमेवंविधं गौतमः प्राप योगम्
यश्चाश्विने कृष्णचतुर्दशीदिने रात्रौ समभ्यर्चति लिंगमेतन्
महोपकारेण विमुक्तपापः स याति यत्रास्ति स गौतमो मुनिः
इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात्
य इदं शृणुयाद्भक्त्या गौतमाख्यानमुत्तमम्
यस्य स्मरणमात्रेण वाजपेयफलं भवेत्
एकदा तु पुरा पार्थ सृष्टि कामेन ब्रह्मणा
तपसा तेन सन्तुष्टः पार्वतीपतिशंकरः
ततो हृष्टः प्रमुदितः कृतकृत्यः पितामहः
चखान च सरः पुण्यं नाम्ना ब्रह्मसरः शुभम
अस्य तीरे महालिंगं स्थापयामास वै विभुः