ऐन्द्रे सौम्ये प्रजापत्ये ब्राह्मे चाष्टसु सिद्धयः
वायवी व्योमात्मिका चैव मानसाहम्भवा मतिः ।। प्रत्येकमष्टधा भिन्ना द्विगुणा द्विगुणा क्रमात
पूर्वे चाष्टौ चतुःषष्टिरन्ते शृणुष्व तद्यथा
नानाजाति स्वरूपं च चतुर्भिर्देहधारणम्
विजिते पृथिवीतत्त्वे यदैशान्ये भवन्ति च
सर्वत्र जलप्राप्तिश्च अपि शुष्कं द्रवं फलम्
अव्रणत्वं शरीरस्य कांतिश्चाथाष्टकं स्मृतम्
देहादग्निविनिर्माणं तत्तापभयवर्जनम् 1.2.55.
अग्निग्रहश्च हस्तेन स्मृतिमात्रेण पावनम्
पूर्वाः षोडश चाप्यष्टौ तेजसो यक्षसद्मनि
पर्वतादिमहाभारवहनं लीलयैव च
अंगुल्यग्रनिपातेन भूमेः सर्वत्र कम्पनम्
चतुर्विंशतिः पूर्वाश्चाप्यष्टावेताश्च सिद्धयः
छायाविहीननिष्पत्तिरिंद्रियाणामदर्शनम्
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम्
अष्टौ वातात्मिकाश्चैन्द्रे द्वात्रिंशदपि पूर्वकाः
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम्
चत्वारिंशच्च पूर्वाश्च सोमलोके स्मृतास्त्विमाः 1.2.55.
सर्वभूत प्रसादत्वं मृत्युकालजयस्तथा
आकारेण जगत्सष्टिस्तथानुग्रह एव च
असादृश्यमिदं व्यक्तं निर्वाणं च पृथक्पृथक्
षट्पंचाशत्तथा पूर्वाश्चतुःषष्टिरिमे गुणाः
जीवतो देहभेदे वा सिद्ध्यश्चैतास्तु योगिनाम्
एतान्गुणान्निराकृत्य युञ्जतो योगिनस्तदा
अणिमा लघिमा चैव महिमा प्राप्तिरेव च
यत्र कामावसायित्वं माहेश्वरपदस्थिताः
महिमा शेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य यत्
वशित्वाद्वशिता नाम सप्तमी सिद्धिरुत्तमा 1.2.55.
ऐश्वरं पदमाप्तस्य भवंत्येताश्च सिद्धयः
एष मुक्त इति प्रोक्तो य एवं मुक्तिमाप्नुयात्