नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम्
तदा प्राज्ञो विजानीयादासन्नं मृत्युमात्मनः
दिशं कर्णौ पिधायापि निर्घोषं शृणुयान्न च
द्वारं न चोत्तिष्ठति च शुभ्रा दृष्टिश्च लोहिता
जलप्रवेशादपि वा तदंतं तस्य जीवितम्
प्रकृतैर्विकृतैर्वापि तस्यासन्नौ यमांतकौ
निन्दामवज्ञां कुरुते भक्तो भूत्वा न जीवति
धारणां सम्यगास्थाय समाधावचलो भवेत् 1.2.55.
विमुक्तिमथवा वांछेद्विसृजेद्ब्रह्ममूर्धनि
योगिनं समुपायांति शृणु तानपि पांडव
ऐन्द्रे सौम्ये प्रजापत्ये ब्राह्मे चाष्टसु सिद्धयः
वायवी व्योमात्मिका चैव मानसाहम्भवा मतिः ।। प्रत्येकमष्टधा भिन्ना द्विगुणा द्विगुणा क्रमात
पूर्वे चाष्टौ चतुःषष्टिरन्ते शृणुष्व तद्यथा
नानाजाति स्वरूपं च चतुर्भिर्देहधारणम्
विजिते पृथिवीतत्त्वे यदैशान्ये भवन्ति च
सर्वत्र जलप्राप्तिश्च अपि शुष्कं द्रवं फलम्
अव्रणत्वं शरीरस्य कांतिश्चाथाष्टकं स्मृतम्
देहादग्निविनिर्माणं तत्तापभयवर्जनम् 1.2.55.
अग्निग्रहश्च हस्तेन स्मृतिमात्रेण पावनम्
पूर्वाः षोडश चाप्यष्टौ तेजसो यक्षसद्मनि
पर्वतादिमहाभारवहनं लीलयैव च
अंगुल्यग्रनिपातेन भूमेः सर्वत्र कम्पनम्
चतुर्विंशतिः पूर्वाश्चाप्यष्टावेताश्च सिद्धयः
छायाविहीननिष्पत्तिरिंद्रियाणामदर्शनम्
दूरे च शब्दग्रहणं सर्वशब्दावगाहनम्
अष्टौ वातात्मिकाश्चैन्द्रे द्वात्रिंशदपि पूर्वकाः
सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम्
चत्वारिंशच्च पूर्वाश्च सोमलोके स्मृतास्त्विमाः 1.2.55.
सर्वभूत प्रसादत्वं मृत्युकालजयस्तथा
आकारेण जगत्सष्टिस्तथानुग्रह एव च