तेन यो मदमादद्याद्योगी शीघ्रं च चेतसः
द्वितीयः सात्विकश्चायमस्मान्मत्तो विनश्यति । अष्टौ पश्यति योनीश्च देवानां दैव इत्यसौ
अयं च सात्त्विको दोषो मदादस्माद्विनश्यति
आवर्ताख्यस्त्वयं दोषो राजसः स महाभयः
समस्ताधारविभ्रंशाद्भ्रमाख्यस्तामसो गुणः
उपसर्गैर्महाघोरैरावर्त्यंते पुनः पुनः
चिंतयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः
राजसैस्तामसैश्चैव योगी सिद्धयेन्न कर्हिचित् 1.2.55.
स्वधर्मादनपेतेषु भिक्षा याच्या च योगिना
फलमूलं विपक्वं वा कणपिण्याकसक्तवः
मृत्युकालं विदित्वा च निमित्तैर्योगसाधकः
निमित्तानि च वक्ष्यामि मृत्युं यो वेत्ति योगवित्
दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति
एनं च वीक्ष्य वल्गन्तं तं विद्यान्मृत्युमागतम्
याति मज्जेदधौ पंके गोमये वा न जीवति
एषामन्यतमैः पूर्णां दृष्ट्वा स्वप्ने न जीवति
पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं भजेन्नरः
विपरीतं परीतं वा स सद्यो मृत्युमृच्छति 1.2.55.
नात्मानं परनेत्रस्थं वीक्षते न स जीवति
दृष्ट्वा मन्येत स क्षीणमात्मजीवितमाप्तवान्
नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम्
तदा प्राज्ञो विजानीयादासन्नं मृत्युमात्मनः
दिशं कर्णौ पिधायापि निर्घोषं शृणुयान्न च
द्वारं न चोत्तिष्ठति च शुभ्रा दृष्टिश्च लोहिता
जलप्रवेशादपि वा तदंतं तस्य जीवितम्
प्रकृतैर्विकृतैर्वापि तस्यासन्नौ यमांतकौ
निन्दामवज्ञां कुरुते भक्तो भूत्वा न जीवति
धारणां सम्यगास्थाय समाधावचलो भवेत् 1.2.55.
विमुक्तिमथवा वांछेद्विसृजेद्ब्रह्ममूर्धनि
योगिनं समुपायांति शृणु तानपि पांडव