प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः
तथेंद्रियवृतो दोषः प्राणायामेन दह्यते
प्राणायामेन योगज्ञस्तस्मात्प्राणं सदा यमेत्
शांतिः प्रशान्तिर्दीप्तिश्च प्रसादश्च यथाक्रमम्
वासनाशांतिरित्याख्यः प्रथमो जायते गुणः
तपसां च यदा प्राप्तिः सा शांतिरिति चोच्यते
प्रसाद इति स प्रोक्तः प्राप्यमेवं चतुष्टयम्
मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुंजराः 1.2.55.
प्राणायामस्त्वयं प्रोक्तः प्रत्याहारं ततः शृणु
प्रत्याहारं विनिर्दिष्टतस्य संयमनं हि यत्
यथा तोयार्थिनस्तोयं पत्रनालादिभिः शनैः
प्राग्नाभ्यां हृदये वायुरथ तालौ भ्रुवोंऽतरे
आकुंचनेनैव मूर्द्धमुन्नीय पवनं शनैः
प्राणायामा दश द्वौ च धारणैषा प्रकीर्त्यते
धारणास्थस्य यद्ध्येयं तस्य त्वं शृणु लक्षणम्
केचिच्छिवं हरिं केचित्केचित्सूर्यं विधिं परे
तत्र यो यच्च ध्यायेत स च तत्र प्रलीयते
पद्मासनस्थं तं गौरं बीजपूरकरं स्थितम् 1.2.55.
ध्येयमेतत्तव प्रोक्तं तस्माद्ध्यानं समाचरेत्
न पृथग्जायते ध्येयाद्धारणां यः समास्थितः
न किंचिच्चिंतयेत्पश्चात्समाधिरिति कीर्त्यते
शब्दस्पर्शरसैर्हीनं गंधरूपविवर्जितम्
तां तु प्राप्य नरो विघ्नैर्नाभिभूयेत कर्हिचित्
शंखाद्याः शतशस्तस्य वाद्यन्ते यदि कर्णयोः
कशाप्रहाराभिहतो वह्निदग्धतनुस्तथा
रूपे गंधे रसे बाह्ये तादृशस्य तु का कथा
तृष्णा वाथ बुभुक्षा वा बाधेते तं न कर्हिचित्
न स्वर्गे न च पाताले मानुष्ये क्व च तत्सुखम् 1.2.55.
एवमारूढयोगस्य तस्यापि कुरुनदन
प्रातिभः श्रावणो दैवो भ्रमावर्तोऽथ भीषणः