समाधिरिति चाष्टांगो योगः संपरिकीर्तितः
अनुक्रमान्नरो येषां साधनाद्योगमश्नुते
एते पंच यमाः प्रोक्ताः शृण्वेषामपि लक्षणम्
अहिंसैषा समाख्याता वेदसंविहिता च या
कथनं सत्यमित्युक्तं परपीडाविवर्जितम्
मनसा कर्मणा वाचा तदस्तेयं प्रकीर्तितम्
ऋतौ स्वदारगमनं गेहिनां ब्रह्मचर्यता
गृहस्थानां च मनसा स्मृत एषोऽपरिग्रहः 1.2.55.
शौचं तुष्टिस्तपश्चैव जपो भक्तिर्गुरोस्तथा
बाह्यमाभ्यतरं चैव द्विविधं शौचमुच्यते
न्यायेनागतया वृत्त्या भिक्षया वार्तयापि च
चांद्रायणादीनि पुनस्तपांसि विहितानि च
स्वाध्यायस्तु जपः प्रोक्तः प्रणवाभ्यसनादिकः
एवं संसाध्य नियमान्संयमांश्च विचक्षणः
यतोऽशुचिशरीरस्य वायुकोपो महान्भवेत्
तस्माद्विचक्षणः शुद्धं कृत्वा देहं यतेत्परम्
प्राणापाननिरोधश्च प्राणायामः प्रकीर्तितः
लघुर्द्वादशमात्रस्तु मात्रा निमिष उन्मिषः 1.2.55.
प्रथमेन जयेत्स्वेदं मध्यमेन तु वेपथुम्
पद्माख्यमासनं कृत्वा रेचकं पूरकं तथा
प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः
तथेंद्रियवृतो दोषः प्राणायामेन दह्यते
प्राणायामेन योगज्ञस्तस्मात्प्राणं सदा यमेत्
शांतिः प्रशान्तिर्दीप्तिश्च प्रसादश्च यथाक्रमम्
वासनाशांतिरित्याख्यः प्रथमो जायते गुणः
तपसां च यदा प्राप्तिः सा शांतिरिति चोच्यते
प्रसाद इति स प्रोक्तः प्राप्यमेवं चतुष्टयम्
मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुंजराः 1.2.55.
प्राणायामस्त्वयं प्रोक्तः प्रत्याहारं ततः शृणु
प्रत्याहारं विनिर्दिष्टतस्य संयमनं हि यत्