जटाजूटवता बालचंद्रचूडेन मौलिना
नागकुंडलिभिः फालफलकोद्भासिलोचनैः
शूलं कपालं डमरुं सारंगं परशुं धनुः
श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान्
परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः
न किंचिदपि जानानो मुमोह च सरोजभूः
दृशाभिनंद्य माधवं प्रसन्नया महेश्वरः
जगाद चाधिकारितामदाद्युवां समुद्धतौ
परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः 1.3.2.15.
अशासि पंचवक्त्रता यदोपहासितो ह्यहम्
तृतीय एष मंतुरप्यहो कथं नु सह्यते
अयं च केतकच्छदो यदाप कूटसाक्षिताम्
शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत
ननु त्वमंगान्मे जातस्सात्त्विकोऽसि विशेषतः
न तवातः परं जातु भक्तिहानिर्भवेन्मयि
इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहंक्रिये हरौ
विना भायैक्यसुलभं भवदीयमनुग्रहम्
अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम्
को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः
पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी
षड्विंशत्तत्त्वरूपस्त्वमभितश्चाभिवर्त्तसे
किरातः किल देवस्त्वं सारमेयैः किलागमैः
देव दक्षाध्वरे पूर्वं वरिभद्रस्त्वदाज्ञया
तव कालाग्निरूपस्य सर्वब्रह्मांडदाहिनः
कृतापराधः शूलेन त्वया दीर्णो जलंधरः
अधारयिष्यत्कण्ठेन कालकूटं न चेद्भवान् 1.3.2.16.
देवदारुवने पूर्वं मुनीन्केवलकर्मठान्
अंघ्रिणाक्रांतवान्नो चेदत्युग्रां त्वमपस्मृतिम्
अर्धनारीश्वरं रूपं त्वया चेन्न प्रकाशितम्
भवता स्तंभितः शम्भो संरंभाज्जंभजिद्भुजः