कार्तिके शुक्लद्वादश्यां प्रबोधिन्यामसौ मुनिः
तस्मिन्दिने नारदेन निर्मितेऽत्रैव कूपके
तपो दानं जपश्चात्र कूपे भवति चाक्षयम्
इदं विष्ण्विति मंत्रेण ततो विष्णुं प्रबोधयेत्
योगनिद्रा यथा त्यक्ता हरिणा मुनिसत्तम
इति मंत्रेण चोत्थाप्य नारदं परिपूजयेत्
शक्त्या द्विजानां देयं च छत्रं धोत्रं कमंडलुम्
एवं कृते प्रसादात्स मुनेः पापेन मुच्यते
प्राणमन्नारदं भक्त्या विस्मितः पुलकान्वितः
प्रशस्य च चिरं कालं पुनर्नारदमब्रवीत्
गुप्तक्षेत्रस्य माहात्म्यं शृण्वानस्त्वन्मुखान्मुने
गौतमेश्वर लिंगस्य सावधानः शृणुष्व तत्
अक्षपादो महायोगी गौतमाख्योऽभवन्मुनिः
गुप्त क्षेत्रस्य माहात्म्यं स च ज्ञात्वा महोत्तमम्
योगसिद्धिं ततः प्राप्य गौतमेन महात्मना
संस्नाप्यैतन्महालिंगं चन्दनेन विलिप्य च सर्वपापविनिर्मुक्तो रुद्रलोके महीयते
योगं सर्वे प्रशंसंति यतः सर्वोत्तमोत्तमम्
श्रवणादपि नैर्मल्यं यस्य स्यात्सेवनात्किमु ।। 1.2.55.
चित्तवृत्तिनिरोधाख्यं योगतत्त्वं प्रकीर्त्यते
यमश्च नियमश्चैव प्राणायामस्तृतीयकः
समाधिरिति चाष्टांगो योगः संपरिकीर्तितः
अनुक्रमान्नरो येषां साधनाद्योगमश्नुते
एते पंच यमाः प्रोक्ताः शृण्वेषामपि लक्षणम्
अहिंसैषा समाख्याता वेदसंविहिता च या
कथनं सत्यमित्युक्तं परपीडाविवर्जितम्
मनसा कर्मणा वाचा तदस्तेयं प्रकीर्तितम्
ऋतौ स्वदारगमनं गेहिनां ब्रह्मचर्यता
गृहस्थानां च मनसा स्मृत एषोऽपरिग्रहः 1.2.55.
शौचं तुष्टिस्तपश्चैव जपो भक्तिर्गुरोस्तथा
बाह्यमाभ्यतरं चैव द्विविधं शौचमुच्यते