अध्यात्मगतितत्त्वज्ञं क्षांतं शक्तं जितेंद्रियम्
तेजसा यशसा बुद्ध्या नयेन विनयेन च
सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम्
कल्याणं कुरुते गाढं पापं यस्य न विद्यते
वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः
अशनादिष्वलिप्तं च पंडितं नालसं द्विजम्
नार्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः
वीतसंमोहदोषो यो दृढभक्तिश्च श्रेयसि
असक्तः सर्वसंगेषु यः सक्तात्मेति लक्ष्यते
न त्यजत्यागमं किंचिद्यस्तपो नोपजीवति 1.2.54.
कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः
न हृष्यत्यर्थलाभेन योऽलाभे न व्यथत्यपि
तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम्
इमं स्तवं नारदस्य नित्यं राजन्पठाम्यहम्
अन्योपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत्
एतान्गुणान्नारदस्य त्वमथाकर्ण्य पार्थिव
बभूव परमप्री तश्चक्रे तच्च तथा वचः
ततो नारदमानर्च दत्त्वा दानं च पुष्कलम्
ययौ द्वारवतीं कृष्णः सभ्रातृजातिबांधवः
तथा त्वमपि कौरव्य नारदस्य गुणानिमान् 1.2.54.
कार्तिके शुक्लद्वादश्यां प्रबोधिन्यामसौ मुनिः
तस्मिन्दिने नारदेन निर्मितेऽत्रैव कूपके
तपो दानं जपश्चात्र कूपे भवति चाक्षयम्
इदं विष्ण्विति मंत्रेण ततो विष्णुं प्रबोधयेत्
योगनिद्रा यथा त्यक्ता हरिणा मुनिसत्तम
इति मंत्रेण चोत्थाप्य नारदं परिपूजयेत्
शक्त्या द्विजानां देयं च छत्रं धोत्रं कमंडलुम्
एवं कृते प्रसादात्स मुनेः पापेन मुच्यते
प्राणमन्नारदं भक्त्या विस्मितः पुलकान्वितः
प्रशस्य च चिरं कालं पुनर्नारदमब्रवीत्