दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः
सृष्टिमार्गांस्तु तान्वीक्ष्य नारदेन विचालितान्
पैशुन्य वक्ता च तथा द्वितीयानां प्रचालनात्
निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत्
विनाशकालं चावेक्ष्य कलिं वर्धयते यतः
भ्रमतोऽपि च सर्वत्र नास्य यस्मात्पृथङ्मनः यच्च प्रीतिर्मयि तस्य परमा तच्छृणुष्व च
अहं हि सर्वदा स्तौमि नारदं देवदर्शनम्
श्रुतचारित्रयोर्जाता यस्याहंता न विद्यते
अरतिक्रोधचापल्ये भयं नैतानि यस्य च
कामाद्वा यदि वा लोभाद्वाचं यो नान्यथा वदेत् 1.2.54.
अध्यात्मगतितत्त्वज्ञं क्षांतं शक्तं जितेंद्रियम्
तेजसा यशसा बुद्ध्या नयेन विनयेन च
सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम्
कल्याणं कुरुते गाढं पापं यस्य न विद्यते
वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः
अशनादिष्वलिप्तं च पंडितं नालसं द्विजम्
नार्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः
वीतसंमोहदोषो यो दृढभक्तिश्च श्रेयसि
असक्तः सर्वसंगेषु यः सक्तात्मेति लक्ष्यते
न त्यजत्यागमं किंचिद्यस्तपो नोपजीवति 1.2.54.
कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः
न हृष्यत्यर्थलाभेन योऽलाभे न व्यथत्यपि
तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम्
इमं स्तवं नारदस्य नित्यं राजन्पठाम्यहम्
अन्योपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत्
एतान्गुणान्नारदस्य त्वमथाकर्ण्य पार्थिव
बभूव परमप्री तश्चक्रे तच्च तथा वचः
ततो नारदमानर्च दत्त्वा दानं च पुष्कलम्
ययौ द्वारवतीं कृष्णः सभ्रातृजातिबांधवः
तथा त्वमपि कौरव्य नारदस्य गुणानिमान् 1.2.54.