इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वर खण्डे कौमारिकाखंडे कोटितीर्थादिमाहात्म्यवर्णनंनाम त्रिपंचाशत्तमोऽध्यायः
तत्र नाहं त्यजाम्यंग च्छत्रदण्डविभूषिताम्
कार्तिकस्य तु या शुक्ला भवत्येकादशी शुभा
पृच्छतस्तं च मे विप्र न क्रोधं कर्तुमर्हसि
सदा त्वं मोक्षधर्मेषु परिनिष्ठां परां गतः
त्यक्तनिंदास्तुतिर्मौनी मोक्षस्थः परिकीर्त्यसे
सौदामिनीव विचरन्दृश्यसे प्राज्ञसंमतः
बहूनां हि सहस्राणि देवगंधर्वरक्षसाम्
कस्मात्तदेषा चेष्टा ते संदेहं मे हर द्विज
प्रहसन्निव बाभ्रव्यवदनं स निरैक्षत
स च बाभ्रव्यनामा वै हारीतस्यान्वयोद्भवः 1.2.54.
स च ज्ञात्वा महाबुद्धिर्नारदस्य मनीषितम्
सर्वोऽपि चात्र वृत्तांते संशयं याति मानवः
तदहं ते प्रवक्ष्यामि यथा कृष्णान्मया श्रुतम्
महीसागरयात्रायां कृष्णस्तत्राययौ प्रभुः
रामेण रौक्मिणेयेन युयुधानादिभिस्तदा
पिंडदानादिकं कृत्वा दत्त्वा दानानि भूरिशः
स्नानं कृत्वा कोटितीर्थे जयादित्यं समर्च्य च
उग्रसेनेन राज्ञा वै पूर्वजेन जटायुना उग्रसेनो महाराजः कृष्णं प्रोवाच संसदि
योऽयं नाम महाबुद्धिर्नारदो विश्ववंदितः कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रीतिमान् ।। 1.2.54.
दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः
सृष्टिमार्गांस्तु तान्वीक्ष्य नारदेन विचालितान्
पैशुन्य वक्ता च तथा द्वितीयानां प्रचालनात्
निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत्
विनाशकालं चावेक्ष्य कलिं वर्धयते यतः
भ्रमतोऽपि च सर्वत्र नास्य यस्मात्पृथङ्मनः यच्च प्रीतिर्मयि तस्य परमा तच्छृणुष्व च
अहं हि सर्वदा स्तौमि नारदं देवदर्शनम्
श्रुतचारित्रयोर्जाता यस्याहंता न विद्यते
अरतिक्रोधचापल्ये भयं नैतानि यस्य च
कामाद्वा यदि वा लोभाद्वाचं यो नान्यथा वदेत् 1.2.54.