पीड्यमाना यदा विप्राः केनापि च भवंति हि
यामे तृतीये सामानि तारस्वरमधीत्य च 1.2.53.
सप्ताहाद्वर्षमध्याद्वा त्रिवर्षाद्भस्मतां व्रजेत्
सत्येन तेन नो वैरी भस्मीभवतु ह क्षणात्
शालां त्रिपुरुषां तत्र यः पश्यति दिनेदिने
इति त्रिपुरुषशालामाहात्म्यम् नारद उवाच अथान्यत्संप्रवक्ष्यामि मदीयसरसो महत्
माहात्म्यमतुलं पार्थ देवानामपि दुर्लभम्
मृत्तिका ताम्रपात्रेण त्यक्ता बाह्ये ततः स्वयम्
तत्तत्र सरसि क्षिप्तं तेन संपूरितं सरः
श्राद्धं यः कुरुते तत्र स्नात्वा दानं विशेषतः
नारदीयं सरो ह्येतद्विख्यात जगतीतले
यदत्र दीयते दानं हूयते यच्च पावके 1.2.53.
नारदीये सरःश्रेष्ठे स्नात्वा यो नारदेश्व रम्
अत्र तीर्थे पुरा पार्थ सर्वनागैस्तपः कृतम्
ततः सिद्धिं परां प्राप्ता एतर्त्तार्थप्रभावतः
नारदादुत्तरे भागे सर्वे नागाः प्रहर्षिताः
नागेश्वरं महाभक्त्या तस्य पुण्यमनन्तकम्
इति नारदीयसरोमाहात्म्यम् नारद उवाच अपरद्वारकानाम देवी चात्रास्ति पांडव
सा च ब्रह्मांडद्वारे वै सदैव विहितालया
ततो दीर्घं तपस्तप्त्वा मयानीतात्र तोषिता
पूर्वस्मिन्नगरद्वारे स्थापिता द्वारवासिनी
कुण्डे स्नानं नरः कृत्वा तां च देवीं प्रपूजयेत् 1.2.53.
सप्तजन्मकृतं पापं नाशमायाति तत्क्षणात्
वन्ध्या च लभते पुत्रं स्नानमात्रेण तत्र वै
विघ्नानि नाशयेद्देवी सर्व सिद्धिं प्रयच्छति
उत्तरद्वारकां चापि पूज्यैवं विधिवन्नरः
पूर्वद्वारे तु वै देवी या स्थिता द्वारवासिनी
आश्विने मासि संप्राप्ते नव रात्रे विशेषतः
पूजयेद्देवतां भक्त्या पुष्पधूपान्नतर्पणैः
वन्ध्या प्रसूयते पार्थ नात्र कार्या विचारणा