जय रुद्र मखाराते पिनाकिन्प्रमथाधिप
जय भीम मृगव्याध कृत्तिवासः कृपानिधे
त्वदाज्ञया मरुद्राति फणी वहति भूभरम्
ज्योतींषि संचरंते खे सर्वं त्वच्छासनात्प्रभो
विधाय कल्पसे पुष्ट्यै सूते सस्यानि मेदिनी
अणिमादिमहासिद्धिनिःसाधारणवैभवः
विशुक्त्वे विस्मरामस्त्वां स्मरामः संकटेपि च 1.3.2.14.
यदा विधित्सेर्भक्तिं त्वं यदा च प्रावृणोषि ताम्
इति स्तुतस्सांजलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना
कैलासकूटधवलं वृषेन्द्रमधितस्थिवान्
जटाजूटवता बालचंद्रचूडेन मौलिना
नागकुंडलिभिः फालफलकोद्भासिलोचनैः
शूलं कपालं डमरुं सारंगं परशुं धनुः
श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान्
परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः
न किंचिदपि जानानो मुमोह च सरोजभूः
दृशाभिनंद्य माधवं प्रसन्नया महेश्वरः
जगाद चाधिकारितामदाद्युवां समुद्धतौ
परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः 1.3.2.15.
अशासि पंचवक्त्रता यदोपहासितो ह्यहम्
तृतीय एष मंतुरप्यहो कथं नु सह्यते
अयं च केतकच्छदो यदाप कूटसाक्षिताम्
शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत
ननु त्वमंगान्मे जातस्सात्त्विकोऽसि विशेषतः
न तवातः परं जातु भक्तिहानिर्भवेन्मयि
इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहंक्रिये हरौ
विना भायैक्यसुलभं भवदीयमनुग्रहम्
अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम्
को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः
पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी