दिनेदिने फलं तस्य कापिलं गोसहस्रकम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कोटितीर्थमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः
संस्थापिते पुरा स्थाने प्रोक्तोहं द्विजपुंगवैः
स्थानस्य रक्षणार्थाय उपायं कुरु सुव्रत
आराधिता मया पश्चाद्ब्रह्मविष्णुमहेश्वराः
समागम्याथ मां प्रोचुर्नारद व्रियतां वरः
अयमेव वरो मह्यं देयो देवैः सुतोषितैः
एवमस्त्विति देवेशैः प्रतिज्ञातं तदा मुने
एवमुक्त्वा कला मुक्ता देवैस्त्रिपुरुषैः स्वयम्
ततो मया द्विजैः सार्धं शालाग्रे स्थानरक्षणम्
पीड्यमाना यदा विप्राः केनापि च भवंति हि
यामे तृतीये सामानि तारस्वरमधीत्य च 1.2.53.
सप्ताहाद्वर्षमध्याद्वा त्रिवर्षाद्भस्मतां व्रजेत्
सत्येन तेन नो वैरी भस्मीभवतु ह क्षणात्
शालां त्रिपुरुषां तत्र यः पश्यति दिनेदिने
इति त्रिपुरुषशालामाहात्म्यम् नारद उवाच अथान्यत्संप्रवक्ष्यामि मदीयसरसो महत्
माहात्म्यमतुलं पार्थ देवानामपि दुर्लभम्
मृत्तिका ताम्रपात्रेण त्यक्ता बाह्ये ततः स्वयम्
तत्तत्र सरसि क्षिप्तं तेन संपूरितं सरः
श्राद्धं यः कुरुते तत्र स्नात्वा दानं विशेषतः
नारदीयं सरो ह्येतद्विख्यात जगतीतले
यदत्र दीयते दानं हूयते यच्च पावके 1.2.53.
नारदीये सरःश्रेष्ठे स्नात्वा यो नारदेश्व रम्
अत्र तीर्थे पुरा पार्थ सर्वनागैस्तपः कृतम्
ततः सिद्धिं परां प्राप्ता एतर्त्तार्थप्रभावतः
नारदादुत्तरे भागे सर्वे नागाः प्रहर्षिताः
नागेश्वरं महाभक्त्या तस्य पुण्यमनन्तकम्
इति नारदीयसरोमाहात्म्यम् नारद उवाच अपरद्वारकानाम देवी चात्रास्ति पांडव
सा च ब्रह्मांडद्वारे वै सदैव विहितालया
ततो दीर्घं तपस्तप्त्वा मयानीतात्र तोषिता