अत्र तीर्थे पुरा पार्थ अत्रिणा विहितं तपः
अत्रीश्वराभिसंज्ञं तु महापापहरं परम्
तत्र स्नात्वा च यो मर्त्यः श्राद्धं कुर्यात्प्रयत्नतः
भरद्वाजेन मुनिना कोटितीर्थे सरोवरे 1.2.52.
भरद्वाजेश्वरं लिंगं स्थापितं सुमनोहरम्
तत्र स्नात्वा नरो भक्त्या श्राद्धं कुर्याद्विधानतः
ततश्च कोटितीर्थेऽस्मिन्गौतमो भगवानृषिः
तं कामं प्राप्तवान्धीमान्परां मुदमुपागतः
अस्मिन्क्षेत्रे महालिंगं गौतमेश्वरसंज्ञितम्
तन्मम ब्रूहि सकलमहल्यासरःकारणम्
पुरा चेंद्रसमायोगे परं दुःखमुपागता
ततो दुःखार्तः स मुनिः कोटितीर्थेऽकरोत्तपः
ततः साध्वी परं हृष्टा अत्र क्षेत्रे सरोवरम्
अहल्यासरसि स्नानं पिंडदानं समाचरेत् 1.2.52.
कोटितीर्थे नरश्रेष्ठ अनेके मुनयोऽमलाः
राजभिर्बहुभिः पूर्वं तपो दानं तथाध्वराः
अस्य तीरे द्विजं चैकं मृष्टान्नैर्यश्च तर्पयेत्
अस्य तीरे नरः पार्थ रत्नानि विविधानि च
श्रद्धया परया पार्थ द्विजेभ्यः संप्रयच्छति कोटितीर्थे प्रतिश्रुत्य द्विजेभ्यो न प्रयच्छति
नरके पातयित्वा च कुलमेकोत्तरं शतम्
माघमासे तु संप्राप्ते प्रातःकाले तथाऽमले
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्
तत्पुण्यं लभते मर्त्यो नात्र कार्या विचारणा
पितरस्तस्य तुष्यंति गयाश्राद्धशतैर्न तु 1.2.52.
तदक्षयफलं सर्वं ब्रह्मणो वचनं यथा
कन्यां ब्राह्मेण विधिना दत्त्वा कोटिगुणं फलम्
कोटि तीर्थे त्यजेत्प्राणान्हृदि कृत्वा तु माधवम्
कोटितीर्थे तीर्थवरे देहत्यागं करोति यः
अस्य तीरे देहदाहो यस्य कस्य प्रजायते
तत्फलं गदितुं पार्थ वागीशोऽपि न वै क्षमः