त्वया च तोषितो वत्स तव दद्मि वरंत्वमुम्
त्वत्पिता स्मृतिकारश्च भविष्यति द्विजार्चितः
न चैतत्स्थानकं वत्स परित्यक्ष्यामि कर्हिचित्
अनुज्ञाप्य द्विजेद्रांस्तांस्तत्रैवांतर्दधे प्रभुः 1.2.51.
आश्विने मासि संप्राप्ते रविवारे च सुव्रत
कोटितीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति
लेपनाद्गंधधूपाद्यै नैवेद्येर्घृतपायसैः
मुच्यते सर्वपापेभ्यः सूर्यलोकं च गच्छति
इष्टकामैः समायुक्तः सूर्यलोके चिरं वसेत्
सर्वेषु रविवारेषु जयादित्यस्य दर्शनम्
अनादिनिधनं देवमव्यक्तं तेजसां निधिम्
सूर्योपरागे संप्राप्ते रविकूपे समाहितः
दानं चैव यथाशक्त्या जयादित्याग्रतः स्थितः
कुरुक्षेत्रेषु यत्पुण्यं प्रभासे पुष्करेषु च तत्पुण्यं लभते मर्त्यो जयादित्यप्रसादतः ।। 1.2.51.
कस्माद्वा कोटितीर्थानां फलमत्रोच्यते मुने
ब्रह्मलोकात्समानीतः साक्षाद्ब्रह्मा पितामहः
ततो मध्याह्नसमये स्नानार्थे भगवान्विधिः
स्वर्गात्त्रिदशलक्षाणि सप्ततिश्च महीतलात्
अनेन प्रविभागेन लिंगान्यपि कुरूद्वह
ततोऽभिषेचनं कृत्वा लिंगान्यभ्यर्च्य पद्मभूः
ततो भगवता ह्यत्र मनसा निर्मितं सरः
किं कुर्म भगवन्धातरादेशं देहि नः प्रभो
एतस्मिन्सरसि स्थेयं तीर्थैः सर्वैरथात्र च
कोटीनामेव तीर्थानां लिंगानां स्नानपूजया 1.2.52.
यः श्राद्धं कुरुते चात्र पिंडदानं यथाविधि
स्नात्वा योऽभ्यर्चयेद्देवं कोटीश्वरमनन्यधीः
त्रैलोक्ये यानि तीर्थानि गंगाद्याः सरितस्तथा
एवं दत्त्वा वरं ब्रह्मा ब्रह्मलोकं ययौ प्रभुः
अस्य तीरे पुरा पार्थ ब्रह्माद्यैर्देवसत्तमैः
वसिष्ठाद्यैर्मुनिवरैस्तपश्चीर्णं पुरानघ