दिवाकरो मित्रविष्णुश्च देव ख्यातस्त्वं वै द्वादशात्मा नमस्ते
नक्षत्रमाला कुसुमाभिमाला तस्मै नमो व्योमलिंगाय तुभ्यम्
त्वं देवदेवस्त्वमनाथनाथस्त्वं प्राप्यपालः कृपणे कृपालुः
दारिद्र्यदारिद्र्य निधे निधीनाममंगलामंगल शर्मशर्म 1.2.51.
व्याधिग्रस्तं कुष्ठरोगाभिभूतं भग्न प्राणं शीर्णदेहं विसंज्ञम्
त्वं मे पिता त्वं जननी त्वमेव त्वं मे गुरुर्बान्धवाश्च त्वमेव
पापोऽस्मि मूढोऽस्मि महोग्रकर्मा रौद्रोऽस्मि नाचारनिधानमस्मि
स्निग्धगंभीरया वाचा प्राह तं प्रहसन्निव
जयादित्याष्टकमिदं यत्त्वया परिकीर्तितम्
रविवारे विशेषेण मां समभ्यर्च्य यः पठेत्
त्वया च तोषितो वत्स तव दद्मि वरंत्वमुम्
त्वत्पिता स्मृतिकारश्च भविष्यति द्विजार्चितः
न चैतत्स्थानकं वत्स परित्यक्ष्यामि कर्हिचित्
अनुज्ञाप्य द्विजेद्रांस्तांस्तत्रैवांतर्दधे प्रभुः 1.2.51.
आश्विने मासि संप्राप्ते रविवारे च सुव्रत
कोटितीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति
लेपनाद्गंधधूपाद्यै नैवेद्येर्घृतपायसैः
मुच्यते सर्वपापेभ्यः सूर्यलोकं च गच्छति
इष्टकामैः समायुक्तः सूर्यलोके चिरं वसेत्
सर्वेषु रविवारेषु जयादित्यस्य दर्शनम्
अनादिनिधनं देवमव्यक्तं तेजसां निधिम्
सूर्योपरागे संप्राप्ते रविकूपे समाहितः
दानं चैव यथाशक्त्या जयादित्याग्रतः स्थितः
कुरुक्षेत्रेषु यत्पुण्यं प्रभासे पुष्करेषु च तत्पुण्यं लभते मर्त्यो जयादित्यप्रसादतः ।। 1.2.51.
कस्माद्वा कोटितीर्थानां फलमत्रोच्यते मुने
ब्रह्मलोकात्समानीतः साक्षाद्ब्रह्मा पितामहः
ततो मध्याह्नसमये स्नानार्थे भगवान्विधिः
स्वर्गात्त्रिदशलक्षाणि सप्ततिश्च महीतलात्
अनेन प्रविभागेन लिंगान्यपि कुरूद्वह
ततोऽभिषेचनं कृत्वा लिंगान्यभ्यर्च्य पद्मभूः