इति प्रशस्य तान्विप्रान्प्रहृष्टो रविरव्रवीत्
समागतः सूर्यलोकात्प्राप्तं नेत्रफलं च मे
अंत्यजा अपि पूयन्ते किं पुनर्मादृशा द्विजाः
युष्माभिर्बध्यते श्रेयो यस्य वै धूतकिल्विषैः तपो विद्या च वृत्तं च यतो वार्द्धक्यकारणम्
वरं मत्तो वृणीध्वं च दुर्लभं यं हृदीच्छत 1.2.51.
देवतानां हि संसर्गो निष्फलो नोपजायते
संपूज्य परया भक्त्या पाद्यार्घ्यस्तुतिवंदनैः
जयादित्य जय स्वामिञ्जय भानो जयामल
विप्राणां त्वं परो देवो विप्रसर्गोऽपि त्वन्मयः
अद्य नः सफला वेदा अद्य नः सफलाः क्रियाः
वरं यदि प्रदातासि तदेनं प्रवृणीमहे
जयादित्य इति ख्यातस्तस्मात्स्थास्येऽत्र सर्वदा
यावन्मही समुद्राश्च पर्वता नगराणि च
दारिद्र्यरोगसंघातान्दद्रवो मंडलानि च 1.2.51.
यो मामत्र स्थितं चापि पूजयिष्यति मानवः
मूर्तिं संस्थापयामासुर्वेदोदितविधानतः
ततो द्विजाः प्राहुरेवं कमठं त्वत्कृते रविः
इत्युक्तो ब्राह्मणैः सर्वैः कमठो वाग्ग्मिनां वरः । प्रणिपत्य जयादित्यं महास्तोत्रमिदं जगौ
न त्वं कृतः केवलसंश्रुतश्च यजुष्येवं व्याहरत्यादिदेव
मार्तंडसूर्यांशुरविस्तथेन्द्रो भानुर्भगश्चार्यमा स्वर्णरेताः
दिवाकरो मित्रविष्णुश्च देव ख्यातस्त्वं वै द्वादशात्मा नमस्ते
नक्षत्रमाला कुसुमाभिमाला तस्मै नमो व्योमलिंगाय तुभ्यम्
त्वं देवदेवस्त्वमनाथनाथस्त्वं प्राप्यपालः कृपणे कृपालुः
दारिद्र्यदारिद्र्य निधे निधीनाममंगलामंगल शर्मशर्म 1.2.51.
व्याधिग्रस्तं कुष्ठरोगाभिभूतं भग्न प्राणं शीर्णदेहं विसंज्ञम्
त्वं मे पिता त्वं जननी त्वमेव त्वं मे गुरुर्बान्धवाश्च त्वमेव
पापोऽस्मि मूढोऽस्मि महोग्रकर्मा रौद्रोऽस्मि नाचारनिधानमस्मि
स्निग्धगंभीरया वाचा प्राह तं प्रहसन्निव
जयादित्याष्टकमिदं यत्त्वया परिकीर्तितम्
रविवारे विशेषेण मां समभ्यर्च्य यः पठेत्