अजविक्रयकृद्व्याधः कुण्डाशी भृतको भवेत्
अभक्ष्यादो गण्डमाली स्त्रीखादी चाऽऽसुतस्य कृत्
शास्त्रचौरः केकराक्षः कथां पुण्यां च द्वेष्टि यः
देवद्विजगवां वृत्तिहारको वांतभक्षकृत्
व्यवहारे च्छलग्राही भृत्यग्रस्तो भवेन्नरः 1.2.51.
वात रोगी कुवैद्यः स्याद्दुश्चर्मा गुरुतल्पगः
स्वसारं मातरं पुत्रवधूं गच्छन्नबीजवान्
इत्येष लक्षणोद्देशः पापिनां परिकीर्तितः
एते नरक विभ्रष्टा भुक्त्वा योनीः सहस्रशः
ये हि धर्मं न मन्यंते तथा ये व्यसनैर्जिताः
येषां त्वंतगतं पापं स्वर्गाद्वा ये समागताः
भवंति चात्र श्लोकाः तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विवर्जयेत्
लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्रोच्यते यतः
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा
इति पृष्टं त्वया विप्र यथाशक्त्या मयेरितम् 1.2.51.
भगवान्भास्करः प्रीतो बभूवातीव विस्मितः
प्रशशंस च तान्विप्रान्हारीतप्रमुखांस्तदा
अथ प्रजापतिर्धन्यो यन्मर्यादाभिपाल्यते
येषां मध्ये बालबुद्धिरियमेतादृशी स्फुटा
असंशयं त्रिलोकस्थमेषामविदितं न हि
इति प्रशस्य तान्विप्रान्प्रहृष्टो रविरव्रवीत्
समागतः सूर्यलोकात्प्राप्तं नेत्रफलं च मे
अंत्यजा अपि पूयन्ते किं पुनर्मादृशा द्विजाः
युष्माभिर्बध्यते श्रेयो यस्य वै धूतकिल्विषैः तपो विद्या च वृत्तं च यतो वार्द्धक्यकारणम्
वरं मत्तो वृणीध्वं च दुर्लभं यं हृदीच्छत 1.2.51.
देवतानां हि संसर्गो निष्फलो नोपजायते
संपूज्य परया भक्त्या पाद्यार्घ्यस्तुतिवंदनैः
जयादित्य जय स्वामिञ्जय भानो जयामल
विप्राणां त्वं परो देवो विप्रसर्गोऽपि त्वन्मयः
अद्य नः सफला वेदा अद्य नः सफलाः क्रियाः