दुर्बलं पीड्यमानं यो बलवान्समुपेक्षते
व्यवहारे पक्षपाती जिह्वारोगी भवेन्नरः
स्वयं पाकाग्रभोजी यो गलरोगमवाप्नुयात्
पर्वमैथुन कृन्मेही परित्यज्य स्वगेहिनीम्
परिक्षीणान्मित्रबन्धून्स्वामिनं दयितानुगान् 1.2.51.
छद्मनोपचरेद्यस्तु पितरौ स्वामिनं गुरून्
विश्रब्धस्यापहारी तु दुःखानां भाजनं भवेत्
दुर्बलवृषवाही यः कटिलूती भवेत्स च
जात्यंधश्चापि यो गोघ्नो निःपशुर्दुःखकृद्गवाम्
निस्तेजकः सभायां यो गलगण्डी स जायते
अजविक्रयकृद्व्याधः कुण्डाशी भृतको भवेत्
अभक्ष्यादो गण्डमाली स्त्रीखादी चाऽऽसुतस्य कृत्
शास्त्रचौरः केकराक्षः कथां पुण्यां च द्वेष्टि यः
देवद्विजगवां वृत्तिहारको वांतभक्षकृत्
व्यवहारे च्छलग्राही भृत्यग्रस्तो भवेन्नरः 1.2.51.
वात रोगी कुवैद्यः स्याद्दुश्चर्मा गुरुतल्पगः
स्वसारं मातरं पुत्रवधूं गच्छन्नबीजवान्
इत्येष लक्षणोद्देशः पापिनां परिकीर्तितः
एते नरक विभ्रष्टा भुक्त्वा योनीः सहस्रशः
ये हि धर्मं न मन्यंते तथा ये व्यसनैर्जिताः
येषां त्वंतगतं पापं स्वर्गाद्वा ये समागताः
भवंति चात्र श्लोकाः तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विवर्जयेत्
लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्रोच्यते यतः
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा
इति पृष्टं त्वया विप्र यथाशक्त्या मयेरितम् 1.2.51.
भगवान्भास्करः प्रीतो बभूवातीव विस्मितः
प्रशशंस च तान्विप्रान्हारीतप्रमुखांस्तदा
अथ प्रजापतिर्धन्यो यन्मर्यादाभिपाल्यते
येषां मध्ये बालबुद्धिरियमेतादृशी स्फुटा
असंशयं त्रिलोकस्थमेषामविदितं न हि