संसर्गी सर्वरोगी स्यात्पंचपातकिनस्त्वमी
स्वयं प्रकीर्तयेच्चापि मूकः पापोऽभिजायते
अवज्ञाकारकस्तेषां कृमिरेवाभिजायते
चौर्याय साधुद्रव्याणां दद्याद्यावत्पदानि च
दत्त्वा हरति तद्भूयो जायते कृकलासकः 1.2.51.
रजस्वलामभिगच्छंश्च चंडालः संप्रजायते
दर्दुरो रूप्यहारी स्यात्कूटसाक्षी मुखारुजः
प्रतिज्ञायाप्रयच्छन्यो ह्यल्पायुर्जायते नरः
नैष्ठिकान्नाशनाद्भूयो निवृत्तो रोगवान्सदा
स्वामिना धर्मयुक्तो यस्त्वन्यायेन समाचरेत्
दुर्बलं पीड्यमानं यो बलवान्समुपेक्षते
व्यवहारे पक्षपाती जिह्वारोगी भवेन्नरः
स्वयं पाकाग्रभोजी यो गलरोगमवाप्नुयात्
पर्वमैथुन कृन्मेही परित्यज्य स्वगेहिनीम्
परिक्षीणान्मित्रबन्धून्स्वामिनं दयितानुगान् 1.2.51.
छद्मनोपचरेद्यस्तु पितरौ स्वामिनं गुरून्
विश्रब्धस्यापहारी तु दुःखानां भाजनं भवेत्
दुर्बलवृषवाही यः कटिलूती भवेत्स च
जात्यंधश्चापि यो गोघ्नो निःपशुर्दुःखकृद्गवाम्
निस्तेजकः सभायां यो गलगण्डी स जायते
अजविक्रयकृद्व्याधः कुण्डाशी भृतको भवेत्
अभक्ष्यादो गण्डमाली स्त्रीखादी चाऽऽसुतस्य कृत्
शास्त्रचौरः केकराक्षः कथां पुण्यां च द्वेष्टि यः
देवद्विजगवां वृत्तिहारको वांतभक्षकृत्
व्यवहारे च्छलग्राही भृत्यग्रस्तो भवेन्नरः 1.2.51.
वात रोगी कुवैद्यः स्याद्दुश्चर्मा गुरुतल्पगः
स्वसारं मातरं पुत्रवधूं गच्छन्नबीजवान्
इत्येष लक्षणोद्देशः पापिनां परिकीर्तितः
एते नरक विभ्रष्टा भुक्त्वा योनीः सहस्रशः
ये हि धर्मं न मन्यंते तथा ये व्यसनैर्जिताः