मरणानंतरं तेषां जंतूनां योनिपूरणम्
धार्मिकः पूज्यते तत्र पापः पाशगलो भवेत्
आरामद्रुमदातारः फलपुष्पवता पथा
उपानहप्रदा यानैर्वितृषाः पूर्तधर्मिणः
भक्ष्यभोज्यैस्तथा तृप्ता यांति भोजनदायिन
श्रीसूर्यं श्रीमहादेवं भक्ता ये पुरुषोत्तमम्
महीं गां कांचनं लोहं तिलान्कार्पासमेव च
तेषां तत्र गतानां च पापिनां पुण्यकर्मिणाम् 1.2.50.
प्रेतलोके स वसति ततः संवत्सरं नरः
सोदकुम्भमथान्नाद्यं बांधवैर्यत्प्रदीयते
पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव च
न चाप्युदकदातासौ क्षुत्तृड्भ्यामतिपीड्यते
मासिमासि च यच्छ्राद्धं षोडशश्राद्धपूर्वकम्
मानुषेण दिनेनैव प्रेतलोके दिनं स्मृतम्
तं च स्माशानिकानाम गणा याम्या भयावहाः
यथेह बन्धने कश्चिद्रक्ष्यते विषमैर्नरैः
यस्य तस्य न मोक्षोऽस्ति प्रेतत्वाद्वै युगैरपि
पूर्णे संवत्सरे देहं संपूर्णं प्रतिपद्यते 1.2.50.
ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा
सुराद्याः सत्यपर्यंताः स्वर्लोकस्योर्ध्वमाश्रिताः
पुण्यं तेन भवेत्स्वर्गो नरकस्तद्विपर्ययात्
अर्वाक्सपिंडीकरणं यस्य वर्षाच्च वा कृतम्
यैरिष्टं च त्रिभिर्मेधैरर्चितं वा सुरत्रयम्
शुद्धेन पुण्येन दिवं च शुद्धां पापेन शुद्धेन तथा तमोंधम्
प्रश्नत्रयं चेति तव प्रणीतमुत्पत्तिमृत्यू परलोकवासः
आगमं समुपाश्रित्य तत्तथैव न संशयः
किंत्वत्र नास्तिकाः पापाः सन्दिह्यन्तेऽल्पचेतनाः
इहैव कस्य कस्यैव कर्मणः पापकस्य च
यथा मम गुरुः प्राह यन्मे चेतसि संस्थितम्
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदंतकः